________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
36*AHORES SEX EXC***
| पनिपातेन भिद्यमानाः शतशो मेदमुपयांति, किं पुनः स वराको यो मदेकधारोपनिपातमात्रमपि न सहते ?, तदेवमुत्पासितो मुद्गशैलः समुज्ज्वलितकोपानलोऽहंकारपुरस्सरं तमेवमवादीत् , भो नारद ! महर्षे ! किमत्र तं प्रति परोक्षे बहुजल्पितेन ?, शृणु मे भाषितमेकं, यदि तेन दुरात्मना सप्ताहोरात्रवर्षिणा मे तिलतुषसहस्रांशमात्रमपि मिद्यते, ततोऽहं मुद्गशैल इति नामापि नोदहामि । ततः स पुरुषोऽमृनि मुद्गशैलवचांसि चेतस्थवधार्य कलहोत्थानाय पुष्करावर्तमेघसमीपमुपागमत् । मुद्गशैलवचनानि च सर्वाण्यपि सोत्कर्ष तस्य पुरतोऽन्ववादीत् , स च श्रुत्वा तानि च वचनानि कोपमतीवाशिश्रियत् । स च परुषाणि च वचनानि वक्तुं प्रावर्तिष्ट । यथा-हा दुष्टः स वराकोनात्मज्ञो मामप्येवमधिक्षिपतीति, ततः सर्वादरेण सप्ताहोरात्रान् यावत् निरंतरं मुशलप्रमापधारोपनिपातेन वर्षितुमयतिष्ट। सप्ताहोरात्रं निरंतरवृष्टया च सकलमपि विश्वंभरामंडलं जलप्लावितमासीत् । तत एवैकार्णवकल्पं विश्वमालोक्य चिंतितवान् हतः समूलघातं स बराक इति, ततः प्रतिनिवृत्तो वर्षात , क्रमेण चापसृते जलसंघाते सहर्ष पुष्करावतॊ नारदमेवमवादीत् । भो नारद ! स वराकः संप्रति कामवस्थामुपगतो वर्तते इति सहैव निरीक्ष्यतां, ततः तौ सहभूय मुद्गशैलस्य पार्श्वमगमतां, स च मुद्गशैलः पूर्व धूलीधूसरशरीरत्वात् मंदमंदमकाशिष्ट, संप्रति तु तस्या अपि धूलेरपनयनादधिकतरमवभासमानो वर्तते । ततः स चाकचिक्यमादधानो हसचिव नारदपुष्करावौँ समागच्छंतावेवमभाषिष्ट । समागच्छथः खागतं युष्माकं १, अहो कृतकल्याणा वयं यदतर्कितोपनीतकाञ्चनवृष्टिरिव युष्मदर्शनमकांड एव मन्मनो मोददायि संवृत्तं
-CRORSCIRCCCC
॥२६॥
C
Jan Education
For Private
Personal Use Only