SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् XRRRRREA इह ज्ञानस्य प्ररूपणां वक्ष्ये इत्युक्तं, सा च प्ररूपणा शिष्यानधिकृत्य कर्तव्या, शिष्याश्च द्विधा योग्या अयोग्याश्च, तत्र योहूँ ग्यानधिकृत्य कर्तव्या । नाअयोग्यानिति प्रथमतो योग्यायोग्यविभागोउपदर्शनार्थ तावदिदमाह सेलघंण कुडंग चालणि परिपूर्णग हंस महिस मेसेय मसँग जलुगे विराली जाहंग गो" भेरी" आभेरी ॥ 'सेलघण' इत्यादि, तत्राधिकृतगाथायां । 'आमे घडे निहित्तं जहा जलं तं घडं विणासेइ । इय सिद्धन्तरहस्सं अप्पहार विणासेइ ॥१॥ प्रथममयोग्यशिष्यविषये मुद्गशैलघनदृष्टान्त उपात्तः, स च काल्पनिकः, मुद्गशैलघनयोर्वक्ष्यमाणप्रकारोऽहंकारादिः न संभवति, तयोरचेतनत्वात् , केवलं शिष्यमतिवितानाय तौ तथा कल्पयित्वा दृष्टान्तत्वेनोपात्तौ, न चैतदनुपपन्नम्, ततो नानुपपन्नः शैलघनदृष्टान्तः, तद्भावना चेयं-इह क्वचिद्गोष्पदायामरण्यान्यां मुद्गप्रमाणः क्षितिधरो मुद्गशैलाभिधानो वर्तते, इतश्च जंबूद्वीपप्रमाणः पुष्करावाभिधानो महामेघः, तत्र महर्षिनारदस्थानीयः कोऽपि कलहाभिनंदी तयोः कलहमाधातुं प्रथमतो मुद्गशैलस्योपकंठमगमत् , गत्वा च तमेवमभाषिष्ट, भो मुद्गशैल! क्वचिदवसरे महापुरुषसदसि जलेन | मेत्तुमअशक्यो मुद्गशैल इति मया त्वगुणवर्णनायां क्रियमाणायां नामापि तव पुष्करावर्तों न सहते स्म, यथाऽलमनेनालीकप्रशंसावचनेन, ये हि शिखरसहस्राग्रभागोल्लिखितनभोमंडलतलाः कुलाचलादयः शिखरिणस्तेऽपि मदासारो RRHOE Jain Education a l For Private Personal use only jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy