________________
नन्दिसूत्रम् ॥२४॥
अवचूरिसमलंकृतम्
RAPHRA SEX
सुकुमालकोमलतले तेसिं पणमामि लक्खणपसत्थे । पाए पावयणीण पडिच्छयसएहि पणिवइए ॥४९॥
सुकुमाल इत्यादि, तेषां दृष्यगणिनां 'प्रावचनिकानां' प्रवचने-प्रवचनार्थकथने नियुक्ताः प्रावचनिकाः तेषां, तत्कालापेक्षया युगप्रधानानां इत्यर्थः, पादान् लक्षणैः-शंखचक्रादिभिः प्रशस्तान्-श्रेष्ठान्, तथा सुकुमारमकर्कश कोमलं-मनोझं तलं येषांतान्
पुनः किंभूतानित्याह-प्रति इच्छिकशतैः प्रणिपतितान् , इह ये गच्छांतरवासिनः स्वाचार्य पृष्ट्वा गच्छांतरेऽनुयोगश्रवणाय समा* गच्छंति अनुयोगाचार्येण च प्रतीच्छयतेऽनुमन्यते ते प्रतिइच्छका उच्यन्ते । स्वाचार्यानुज्ञापुरस्सरं अनुयोगाचार्य प्रतिइच्छया का चरंति इति प्रातिइच्छकाः इति व्युत्पत्तेः, तेषां शतैः प्रणिपतितानमस्कृतान् 'प्रणिपतामि' नमस्करोमि ॥ ४८ ॥४९॥
तदेवं आवलिकाक्रमेण महापुरुषाणां स्तवं अभिधाय संप्रति सामान्येन श्रुतधरनमस्कारं आहजे अन्ने भगवंते कालियसुयअणुओगिए धीरे । ते पणमिऊण सिरसा नाणस्स परूवणं वोच्छ ॥५०॥
जे अन्ने इत्यादि, येऽन्येऽतीता भाविनश्च भगवंतः-श्रुतरत्ननिकरपूरितत्वात् समग्रैश्वर्यादिमंतः कालिकश्रुतानुयोगिनो धीरा-विशिष्ट धिया राजमानास्तान 'शिरसा उत्तमांगेन प्रणम्य 'ज्ञानस्य' आभिनिबोधिकादेः 'प्ररूपणं' प्ररूपणाकारकं अध्ययन वक्ष्ये, क एवं आह?,-उच्यते-दृप्यगणिशिष्यो देववाचकः ॥ ५० ॥
॥ थेरावलिया सम्मत्ता॥
॥२४॥
Jain Educationa l
For Private Personal Use Only
.jainelibrary.org