SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् +% BERUPERIOUS H पृथग्भवनात् । उक्तं च-"अंवत्तणेण जीहाए कूचिया होइ खीरमुदगंमि । हंसो मोत्तूण जलं आवियइ पयं तह सुसीसो ॥१॥" "मोत्तूण दंडदोसे गुरुणोणुवउत्तभासियाणंपि। गिण्हइ गुणे उ जो सो जोन्गो समयत्थसारस्स ॥१॥७॥ इदानीं महिषदृष्टान्तभावना यथा महिषो निपानस्थानं अवाप्तः सन् उदकमध्ये प्रविश्य तत् उदकं मुहुर्मुहुः शृङ्गाभ्यां ताडयन् अवगाहमानश्च सकलं | अपि कलुषीकरोति । ततो न स्वयं पातुं शक्रोति नापि यूथं, तद्वत् शिष्योऽपि यो व्याख्यानप्रबन्धावसरेऽकाण्ड एव क्षुद्रपृच्छामिः कलहविकथादिमिः वाऽऽत्मनः परेषां चानुयोगश्रवणविषातं आधत्ते स महिषसमानः स च एकान्तेन अयोग्यः, उक्तं च-सयमविन पियइ महिसो न ज जूहं पियइ लोडियं उदगं । विग्गहविकहाहिं तहा अथक्कपुच्छाहि य कुसीसो ॥१॥६॥ मेषोदाहरणभावना-यथा मेषो वदनस्य तनुत्वात् स्वयं च निभृतात्मा गोष्पदमात्रस्थितमपि जलं अकलुषीकुर्वन् पिबति द्र तथा शिष्योऽपि यः पदमात्रमपि विनयपुरस्सरं आचार्यचित्तं प्रसादयन् पृच्छति स मेषसमानः, स च एकान्तेन योग्यः ॥ ७॥ मसकदृष्टान्तभावना-यः शिष्यो मसक इव जात्यादिकं उद्घट्टयन् गुरोः मनसि व्यथां उत्पादयति स मसकसमानः स च योग्यः।८ जलौकादृष्टांतभावना यथा जलौकाः शरीरं अदुन्वती रुधिरं आकर्षति, तथा शिष्योऽपि यो गुरुं अदुन्वन् श्रुतज्ञानं आपिबति स जलौकासमानः । उक्तं-जलूगा व अमितो पियइ सुसीसो वि सुयनाणं ॥९॥ बिडालीदृष्टान्तभावना-यथा बिडाली भाजनसंस्थं क्षीरं भूमौ छर्दयित्वा] पिबति,तथा दुष्टवभावत्वात् ,एवं शिष्योऽपि यो विनयकरणादिहीनतयान साक्षात् गुरुप्तमीपे गत्वा शृणोति,किंतु व्याख्यानादुत्थितेभ्यः केभ्यश्चित् , स विडालीसमानः,सच अयोग्यः।१०। EC%ECOUGU . UXH Sat Jain Education For Private Personel Use Only Dilaw.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy