SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् । ॥ १७ ॥ Jain Education हारिय इत्यादि, बलिस्सहस्यापि शिष्यं हारीत [स]गोत्रं स्वातिं स्वातिनामानं चः समुच्चये, वन्दे, तथा स्वातिशिष्यं 'हारीतं ' हारीतगोत्रं, चः समुच्चये, स च मिन्नक्रमः श्यामार्यशब्दानन्तरं द्रष्टव्यः, श्यामाचार्य च वन्दे । तथा श्यामाचार्यशिष्यं कौशिक [स] गोत्रं, ' शांडिल्यं ' शांडिल्यनामानं वन्दे । किंभूतमित्याह - ' आर्यजीतधरं ' आरात् सर्वहेयधर्मेभ्योऽर्वाक् यातं आर्य ' जीतं ' इति सूत्रमुच्यते । जीतं स्थितिः कल्पो मर्यादा व्यवस्थेति हि पर्यार्याः, मर्यादाकारणं च सूत्रं उच्यते । तथा 'धृन् धारणे' य धारयति इति धरः, 'लिहादिभ्य ' इत्यच् प्रत्ययः । आर्यजीतस्य धर आर्यजीतधरः तं, अन्ये तु व्याचक्षते - शांडिल्यस्यापि शिष्य आर्यगोत्रो जीतधरनामा सूरिः आसीत् तं वंदे इति ॥ २८ ॥ तिसमुद्दखाकिन्ति दीवसमुद्देसु गहियपेयालं । वन्दे अज्जसमुहं अक्खुभियसमुद्दगंभिरं ॥ २९ ॥ तिसमुद्द इत्यादि, शांडिल्यशिष्यं - आर्यसमुद्रनामानं वंदे, कथंभूतं इत्याह - ' त्रिसमुद्रख्यातकीर्ति ' पूर्वदक्षिणापरदिग्विभागव्यवस्थितत्वात् पूर्वापरदक्षिणास्त्रयः समुद्रास्त्रिसमुद्रं, उत्तरतस्तु हिमवान् वैताढ्यो वा, त्रिसमुद्रे ख्याता कीतिर्यस्य असौ त्रिसमुद्रख्यातकीर्तिस्तं तथा 'द्वीपसमुद्रेषु' द्वीषेषु समुद्रेषु च गृहीतं पेयालं प्रमाणं येन स गृहीतपेयालस्तं, अतिशयेन द्वीपसागरप्रज्ञप्ति विज्ञायकं इति भावः, तथा अक्षुभितसमुद्रवद्गम्भीरम् ॥ २९ ॥ tri iri भावगं नाणदंसणगुणाणं । वंदामि अज्ज मंगुं सुयसागरपारगं धीरं ॥ ३० ॥ भणगमित्यादि, आर्यसमुद्रस्यापि शिष्यं आर्यमंगुं वंदे, किंभूतमित्याह - ' भणकं ' कालिकादिसूत्रार्थमनवरतं भणति-प्रति For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ १७॥ jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy