SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम्। अवचूरीसा मामलरकृतम् संभूतविजयो माढरगोत्रः, भद्रबाहुश्च प्राचीनगोत्रः, तो द्वौ अपि नमस्कुरुते । 'संभूतं चेव माढरं, भद्दबाहुं च पाइन' इति, तत्र संभूतविजयस्य विनेयः स्थूलभद्रो गौतम आसीत् , तं आह-स्थूलभद्रं, चः सम्मुच्चये, गौतम गोतमस्यापत्यं | गौतमः 'ऋषिवृष्ण्यंधककुरुभ्य' (६-१-६१) इति अणप्रत्ययः, तं वंदे इति क्रियायोगः ॥ २६ ॥ स्थूलभद्रस्यापि च द्वौ प्रधानशिष्या बभूवतुः। तद्यथा-एलापत्यं गोत्रो महागिरिर्वशिष्ठगोत्रः सुहस्ती [च तो द्वौ अपि प्रणिनंसुराह एलावच्चसगोत्तं वदामि महाँगिरिं सुहत्थिं च । तत्तो कोसिअगोत्तं बहुलस्स सरिब्वयं वन्दे ॥२७॥ एलाबच्चेत्यादि, एलापत्येन सह वर्त्तते यः स एलापत्य [स] गोत्रस्तं वंदे महागिरिं, सुहस्तिनं च प्रागुक्तगोत्रं, तत्र मुहस्तिन आरभ्य सुस्थितसुप्रतिबद्धादिक्रमेण आवलिका विनिर्गता, सा यथा दशाश्रुतस्कंधे तथैव द्रष्टव्या, न तया इहाधिकारः। तस्यामावलिकायां प्रस्तुताध्ययनकारकस्य देववाचकस्य अभावात् , तत इह महागिर्यावलिकाधिकारः, तत्र महागिरेः द्वौ प्रधानशिष्यावभूतां । तद्यथा-बहुलो बलिस्सहश्च, तौ च द्वौ अपि यमलभ्रातरौ कौशिकगोत्रौ च, तयोरपि मध्ये बलिस्सहः प्रवचनप्रधान आसीत् , ततस्तं एव निनंसुराह-'ततो' महागिरेः अनन्तरं कौशिकगोत्रं बहुलस्य 'सदृशवयसं' समानवयसं, द्वयोः अपि यमलभ्रातृत्वात् , 'वंदे' नमस्करोमि ॥ २७ ॥ हारियगुतं साइं च वंदामि हारियं च सामजं । बन्दे कोसिआगोतं संडिल्ल अजजीयधरं ॥२८॥ AAORANCHORSAX JainEducation.in For Private Personal use only
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy