________________
4+4
नन्दिसूत्रम्
x
अवचूरीसमलकृतम्।
x 44 4
तस्य नाशनं, ततः स्वार्थिकः कप्रत्ययः, कुसमयमदनाशनकं, कुसमयमदनाशनं च कुसमयानां कथाक्तसर्वभावदेशकत्वायोगात् । इत्थंभूतं जिनेंद्रवरवीरशासनकं जयति ॥ २४ ॥
संप्रति यैः इदं अविच्छेदेन स्थविरैः क्रमेण इदं युगीनजन्तूनां उपकारार्थ आनीतं, तेषां आवलिकां अभिधित्सुराह
सुहम्म अग्गिवेसाण जम्बुनामं च कासवं पभैव । कचायणं बंदे वच्छं सिजंभवं तहा ॥ २५॥
सुहम्मं इत्यादि, इह स्थविरावलिका सुधर्मस्वामिनः प्रवृत्ता, शेषगणधराणां संतानप्रवृत्तेरभावात् , ततः तमेव आदौ कृत्वा : तां अभिधत्ते । सुधर्म-सुधर्मस्वामिनं पञ्चमगणधरं, अग्निवेसागं इति, अग्निवेशस्यापत्यं वृद्धौ आग्निवेश्यः, 'गर्गादेः या (६-१-४२) इति यञ्प्रत्ययः, तस्यापि अपत्यं आग्निवेश्यायनः, तं आग्निवेश्यायनं वन्दे इति क्रियाभिसम्बन्धः॥१॥, तथा त च्छष्यं जम्बूनामानं, च समुच्चये, कश्यपस्यापत्यं काश्यपः,बिदादेवृद्ध (६-१-४१) इत्यञ् प्रत्ययः, तं काश्यपगोत्रं वंदे ॥२॥, तस्यापि जम्बूस्वामिनः शिष्यं प्रभवनामानं कात्यायनं, कतस्य अपत्यं कात्यः, गर्गादेर्या (६-१-४२) इति यजप्रत्ययः तस्यापि अपत्यं कात्यायनस्तं कात्यायनं-कात्यायनगोत्रं वंदे ॥ ३ ॥, तच्छिष्यं शय्यंभवं वात्स्यं, तस्यापत्यं वात्स्यः, गर्गादेः यज् (६-१-४२) इति यञ्प्रत्ययः । तं वन्दे ॥ ४ ॥, तथा इति समुच्चये ॥ २५ ॥
जसमें तुंगियं वन्दे संभूतं चेव माढरं । भद्दयाहुं च पाइन्नं थूलभदं च गोयमं ॥२६॥ जस इत्यादि, शय्यंभवशिष्यं यशोभद्रं तुंगिकगणं व्याघमपत्यगोत्रं वंदे । तस्य द्वौ प्रधानशिष्यौ अभूतां, तद्यथा
5 45+4+4+4+4 E
॥१५॥
-RRC
For Private
Personal Use Only
jainelibrary.org