________________
नन्दिसूत्रम्।
॥१२॥
अवचूरीसप्रतीतं 'अहिंसाव्यवस्थितस्तपस्वी' ति जोवदयासुंदर कंदराणि, तेषु ये उत् प्रावल्येन कर्मशत्रुजयं प्रति दर्पिता उद्दर्पिता मुनिवरा एव |
&ामलकृतम्। शाक्यादिमृगपराजयात् मृगेन्द्रा इव मुनिवरमृगेन्द्रास्तैः आकीर्णः-व्याप्तस्तस्य । तथा मन्दरगिरिगुहासु निष्पंदवति चन्द्रकांतादीनि रत्नानि भवन्ति कनकादि धातवो दीप्ताश्च औषधयः, सङ्घमंदरगिरिपक्षे तु अन्वयव्यतिरेकलक्षणा ये हेतवः तेषां शतानि एव धातवः कुयुक्तिव्युदासेन तेषां स्वरूपेण भासुरत्वा., तथा प्रगलंति-निस्पंदमानानि क्षायोपशमिकभावस्पंदित्वात् रत्नानि दीप्ता जाज्वल्यमाना औषधय-आमोषध्यादयो गुहासु व्याख्यानशालारूपासु यस्य स तथा तस्य ॥ १४ ॥
संवरवरजलपगलियउज्जरपविरायमाणहारस्स । सावगजणपउररवंतमोरनचंतकुहरस्स ॥१५॥
संवर इत्यादि, संवरः-प्राणातिपातादिरूपपश्चाश्रवप्रत्याख्यानं तदेव कर्ममलप्रक्षालनात् सांसारिकडपनोदकारित्वा परि-14 णामसुंदरत्वाच वरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढ उज्झरः-प्रवाहः स एव विराजमानो हारो यस्य स तथा, श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायविधानमुखरतया प्रचुरा खंतो मयूरास्तैः नृत्यंति इब कुहराणि-जिनमण्डपादिरूपाणि यस्य स तथा तस्य ।। १५॥ विणयनयपवरमुणिवरफुरंतविज्जुजलंतसिहरस्स। विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥१६॥
विणय इत्यादि, विनयेन नता ये प्रवरमुनिवरास्त एव स्फुरत्यो विद्युतो विनयनतप्रवरमुनिवरस्फुरत्विद्युतस्ताभिः ज्वलंति| भासमानानि शिखराणि यस्य स तथा तस्य, इह शिखरस्थानीयाः प्रावचनिका विशिष्टा आचार्यादयो द्रष्टव्याः, विनयनतानां
Rॐॐॐॐॐ
॥१२॥
Jain Education !
For Private & Personel Use Only
mainelibrary.org