SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम्। ॥ ११ ॥ Jain Education उत्तरगुणरूपरत्न विभूषण विकला शोभते ॥ १२ ॥ नियमुच्छियकणयसिलायलुज्जलजलंतचित्तकूडस्स । नंदणवणमणहरसुरभिसीलगंधुद्धमायस्स ॥ १३ ॥ नियम इत्यादि, इह उच्छ्रितशब्दस्य व्यवहितप्रयोगः, ततश्चायं अर्थः- नियमा एव इन्द्रियदमरूपाः कनकशिलातलानि तेषु उच्छ्रितानि उज्जवलानि ज्वलन्ति चित्तानि एव कूटानि यस्मिन् स तथा तस्य, इह मंदरगिरौ कूटानां उच्छ्रितत्वं उज्वलत्वं भासुरत्वं च सुप्रतीतं, संघमन्दरगिरिपक्षे तु चित्तरूपाणि कूटानि उच्छ्रितानि अशुभाध्यवसायपरित्यागात्, उज्वलानि प्रतिसमयं कर्ममलविगमात् ज्वलंति उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात् । तथा नन्दन्ति सुरासुर विद्याधरादयो यत्र तत् नन्दनं वनं - अशोकसहकारादिपादपवृन्दं, नन्दनं च तत् वनं च नन्दनवनं, लतावितानगतविविधफलपुष्पप्रवालसंकुलतया मनो हरति इति मनोहरं, 'लिहा दिभ्यः' इत्यच् प्रत्ययः (५-१-५० )। नन्दवनं च तत् मनोहरं च नन्दनवनमनोहरं तस्य, सुरभिस्वभावो यो गंधस्तेन 'उद्धमायः' आपूर्णः उडुमायशब्द आपूर्ण पर्यायः तस्य, सङ्घमन्दरगिरिपक्षे तु नन्दनं - संतोषः, तथाहि तत्र स्थिताः साधवो नन्दन्ति, तत्त्वविविधामयादिलब्धिसंकुलतया मनोहरं तस्य, सुरभिः शीलं एव गंधस्तेन व्याप्तस्य, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणं द्रष्टव्यम् ।। १३ ।। जीवदया सुन्दर कंदरुद्धरियमुनिवर मदइन्नस्स । हेउसयधातुपगलंतरयणदित्तोसहिगुहस्स ॥ १४ ॥ जीवदया इत्यादि, जीवदया एव सुन्दराणि स्वपर निवृत्तिहेतुत्वात् कंदराणि तपस्विनामावासभूतत्वात् तथा च लोकेऽपि For Private & Personal Use Only अवचूरीसमलङ्कृतम् । ॥ ११ ॥ jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy