SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ х+4 नन्दिसूत्रम् अवचूरीसमलकृतम्। +4+4+4+4+4+4+4 चन्द्र इव सचन्द्रः तस्थामन्त्रणं, हे सञ्चचन्द्र तथा निर्मल-मिथ्यात्वमलरहितं यत्सम्यक्त्वं तदेव विशुद्धा ज्योत्स्ना यस्य स तथा 'शेषाद्वेति का प्रत्ययः(७-३-१७५), तस्य आमन्त्रणं, हे निर्मलसम्यक्वविशुद्धज्योत्साक ! दीर्घत्वं प्रागिव प्राकृतलक्षणात् अवसेयं, 'नित्यं सर्वकालं 'जय' सकलपरदर्शनतारकेभ्योऽतिशयवान् भव, यद्यपि भगवान् संघचन्द्रः सदैव जयन् प्रवर्तते, तथापि इत्थं स्तोतुः अमिधानं कुशलमनोवाक्कायप्रवर्तिकारणं इति अदुष्टम् ॥ ९॥ पुनरपि संघस्य एव प्रकाशकतया सूर्यरूपकेण स्तवमाहपरतित्थियगहपहनासगस्स तवतेयदित्तलेसस्स । नाणुज्जोयस्स जए भई दमसंघसूरस्स ॥१०॥ परतीर्थिकाः-कपिलकणभक्षाक्षपादसुगतादिमतावलंबिनः त एव ग्रहाः, तेषां या प्रभा-एकैकदुर्नयाभ्युपगमपरिस्फुर्तिलक्षणा, तां अनंतनयसंकुलप्रवचनसमुत्थविशिष्टज्ञानभास्वरप्रभावितानेन नाशयति-अपनयति इति परतीर्थिकप्रहप्रभानाशकः तस्य [परतीर्थिकग्रहप्रभानाशकस्य तथा तपः तेज एव दीप्ता उज्वला लेश्या-भास्वरता यस्य स तथा तस्य तपःतेजोदीप्तलेश्यस्य । तथा ज्ञान एव उद्योतो-वस्तुविषयप्रकाशो यस्य स तथा तस्य ज्ञानउद्योतस्य, 'जगति' लोके 'भद्रं' कल्याण भवतु इति शेषः । दम-उपशमः तत् प्रधानसंघः सूर्य इव संघसूर्यस्तस्य दमसंघसूर्यस्य ॥१०॥ संप्रति संघस्य एव अक्षोभ्यतया समुद्ररूपकेण स्तवं चिकीर्षुराहभई धिइवेलापरिगयस्स समायजोगमगरस्स । अक्खोहस्स भगवओ संघसमुदस्स रुहस्स ॥ ११॥ Jain Education +SE For Private & Personel Use Only jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy