________________
नन्दिसूत्रम्।
REASONSORRO
ये अभ्युपेतसम्यक्त्वाः प्रतिपन्नाणुव्रता अपि प्रतिदिवसं यतिभ्यः साधूनां अगारिणां च उत्तरोत्तरविशिष्टगुणप्रतिपत्तिहेतोः
IP अवचूरीससामाचारी शृण्वन्ति ते श्रावकाः, श्रावकाश्च ते जनाश्च श्रावकजनाः, त एव मधुकर्यः, ताभिः परिवृतस्य, तथा 'जिनसूर्यतेजोबुद्धस्य'
मलंकृतम्। जिन एव सकलजगत्प्रकाश[क]तया सूर्य इव-भास्कर इव जिनसूर्यः, तस्य तेजो विशिष्टसंवेदनप्रभवा धर्मदेशना, तेन बुद्धस्य । तथा श्राम्यन्ति इति श्रमणा 'नन्यादिभ्योऽन' [सि. हे. ५--१५२] इति कर्तर्यनप्रत्ययः। श्राम्यन्ति तपस्यन्ति, किमुक्तं भवतिप्रव्रज्यारम्भदिवसादारभ्य सकलसावद्ययोगविरता गुरूपदेशेन प्राणोपरमात् यथाशक्ति अनशनादितपः चरन्ति । उक्तं च “ यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः ॥१॥ श्रमणानां गणः श्रमणगणः, स एवं सहस्रं पत्राणां यस्य तत् श्रमणगणसहस्रपत्रं तस्य ॥८॥
भूयोऽपि संघस्य एव सौम्यतया चन्द्ररूपकेणस्तवमाहतबसंजममयलंछण! अकीरियराहुमुहदुद्धरिस! निच्चं! जय संघचन्दनिम्मल! सम्मत्तविशुद्धजोण्हागा!॥९॥
तपःसंजम इत्यादि, तपश्च संयमश्च तपःसंयम, समाहारो द्वंद्वः, तपासंयम एव मृगलाञ्छनं-मृगरूपं चिह्नं यस्य तस्य आमन्त्रणं, हे तपःसंयममृगलाञ्छन !, तथा न विद्यन्तेऽनभ्युपगमात् परलोकविषयाः क्रिया येषां ते अक्रियाः-नास्तिकाः, त एव जिनप्रवचनशशाकासनपरायणत्वात् राहुमुखं इवाक्रियाराहुमुखं तेन दुःप्रधृष्यो-अनमिभवनीयः,तस्यामन्त्रणं, हे अक्रियाराहुमुखदुःप्रधृष्य!, सङ्घः
RRRRRRRRRRRRORS
in Education
a
l
For Private & Personel Use Only
ainelibrary.org