SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रत्ययस्तस्य भद्रं भवतु । तथा 'भद्र'कल्याणं भवतु, सुरैः-शक्रादिमिरसुरैश्चमरादिभिश्च नमस्कृतस्य, तथा 'भद्रं' कल्याणं भवतु, मन्दिसूत्रम्। 'धूतरजसः' धूतं कम्पितं स्फोटितं रजो-बध्यमानं कर्म येन स धूतरजास्तस्य ॥३॥ अवचूरीस मलंकृतम्। सम्प्रति तीर्थकरानन्तरं सङ्घः पूज्य इति परिभावयन सङ्घस्य नगररूपकेण स्तवमाहगुणभवणगहण! सुयरयणभरिय! दंसणविशुद्धरत्थागा!। संघनगर! भई ते अखंडचरित्तपागारा!॥४॥ गुणभवण इत्यादि, गुणा-इह उत्तरगुणा गृह्यन्ते, मूलगुणानामग्रे चारित्रशब्देन गृह्यमाणत्वात् , ते च उत्तरगुणाः पिण्ड विशुद्धया६ दयः, त एव भवनानि, तैः गहनं-गुम्पिलं प्रचुरत्वादुत्तरगुणानां गुणभवनगहनम् , सङ्घनगरमभिसम्बध्यते, तस्य आमन्त्रणं, हे गुण-14 भवनगहन !, तथा श्रुतरत्नभृत-श्रुतानि एव आचारादीनि निरुपमसुखहेतुत्वाद्रत्नानि श्रुतरत्नानि, ते तं-पूरितं तस्य आमन्त्रणं, हे श्रुतरत्नभृत !, तथा 'दर्शनविशुद्धरथ्याक' इह दर्शन-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलिङ्गगम्यमात्मपरिणामरूपं सम्यग्दर्शनममिगृह्यते । ताच क्षायिकादिमेदात् त्रिधा, तद्यथा-क्षायिकं, क्षायोपशमिकं औपशमिकं च । दर्शनमेव असारमिथ्यात्वादिकचवररहिता विशुद्धा रथ्या यस्य तत् तथा, तस्य आमंत्रणं, हे दर्शनविशुद्धरथ्याक !, सङ्घश्चातुर्वर्ण्यः श्रमणादिसङ्घातः,स नगरं इव संघनगरं, तस्य आमन्त्रणं, हे सङ्घनगर !, 'भद्रं' कल्याणं 'ते' तव भवतु । अखण्डचारित्रप्राकारं चारित्रं-मूलगुणाः अखण्डं-अविराधितं चारित्रं एव प्राकारो यस्य तत् तथा 'मांसादिषु च' इति प्राकृतलक्षणात् चारित्रशब्दस्य आदौ ह्रस्वः तस्य आमन्त्रणं, हे अखण्डचारित्रप्राकार , दीर्घत्वं प्रागिव ॥४॥ ॥ ५ Jain Educaton For Private & Personel Use Only jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy