SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ मन्दिसूत्रम्। अवचूरीस ॥४ ॥ मलछतम्। ARKARI महामोहावभीषणं रागद्वेषपवनविक्षोभित विविधानिष्टेष्टसंयोगवियोगवीचिनिचयसंकुलमुच्चस्तरमनोरथसहस्रवेलाकलित संसारसागरं तरंति येन ततीर्थम् । तच्च सकलजीवादिपदार्थसार्थरूपकमत्यन्तानवद्यं शेषतीर्थान्तरीयाविज्ञातचरणकरणक्रियाधारं सकलत्रैलोक्यान्तर्गतविबुधर्मसंपत्समन्वितं महापुरुषाश्रयमविसंवादिप्रवचनम् तत्करणशीलास्तीर्थकराः तेषां तीर्थकराणां,अस्मिन् भारते वर्षे,अधिकृतायामवसपिण्यांन विद्यते पश्चिमोऽस्मादित्यपश्चिमः-सर्वान्तिमः, पश्चिम इति । 'जयति गुरुर्लोकानां' इति लोकानां-सत्त्वानां गृणाति प्रवचनार्थमिति गुरुः, प्रवचनार्थप्रतिपादकतया पूज्य इत्यर्थः । तथा 'जयति महात्मा महावीरो' महान्-अतितरशक्त्युपेत आत्मास्वभावो यस्य स महात्मा, 'सूर वीर विक्रांती' वीरयति स्म इति वीरो-विक्रांतः, महान्-कषायोपसर्गपरीपहेन्द्रियादिशत्रुगणजयादतिशायी विक्रांत: महावीरः, अथवा 'ईर गतिप्रेरणयोः' विशेषेण ईरयति-मयति स्फेटयति कर्म, प्रापयति वा शिवमिति वीरः, जयतीति पूर्ववत् ॥ २॥ भई सव्वजगुजोयगस्स भई जिणस्स वीरस्स। भई सुरासुरनमंसियस्स भई धुयरयस्स ॥३॥ ___'भद्र' कल्याणं भवतु, 'सर्वस्य जगदुद्योतकस्य' सर्व-समस्तं जगत्-लोकालोकात्मकम् , उद्योतयति-प्रकाशयति केवलज्ञानदर्शनाम्यामिति सर्वजगदुद्योतकः । तस्य 'भद्रायुष्यक्षेमसुखहितार्थहितराशिवि' इति विकल्पेन चतुर्थीविधानेऽपि षष्ठयपि भवति । यथा आयुष्यं देवदत्ताय, आयुष्यं देवदत्तस्य, तथा 'भद्रं जिनस्य वीरथ' महावीरस, जयति रागादिशत्रुगणमिति जिनः, औणादिको नक् हितसुखाभ्याम् (हैम० २।२।६५) तद्भद्रायुष्योमार्थानाशिषि (२।२ । ६६) इतिसूत्रद्वयोक्तार्थसमहेणात्रैवमुक्तम् । ४॥ Jain Education T For Private Personel Use Only Jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy