SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम्। अवचूरोस मलकृतम्। ॥ ३ ॥ नाति, शुभे च नि स्थाने, तस्माद्धमान जगत्पिताम PRESIDH40655555555 नाथशन्देन च योगक्षेमकुदभिधीयते, 'योगक्षेमकृत् नाथ' इति, तथा' जगद्वन्धुः' इह जगच्छन्देन सकलप्राणि| गणपरिग्रहः, प्राणिन एवाधिकृत्य बन्धुत्वोपपत्तेः, ततश्च जगतः-सकलप्राणिसमुदायरूपस्याव्यापादनोपदेशप्रणयनेन सुख- स्थापकत्वात्-बन्धुरिव बन्धुः जगबन्धुः, तथा 'जयति जगत्पितामहः' इति, इह जगच्छन्देन सकलसत्वपरिग्रहः, ततश्च जगतां सकलसत्त्वानां नरकादिकुगतिविनिपातापावरक्षणात् पितेव पिता-सम्यग्दर्शनमूलोत्तरगुणसंहतिस्वरूपो धर्मः। स हि दुर्गती प्रपततो जंतून रक्षति, शुभे च निःश्रेयसादौ स्थाने स्थापयति । तथा चोक्तम्-निरुक्तशास्त्रवेदिभिः-" दुर्गतिप्रसृतान् जन्तून् , यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥१॥" ततः सकलस्यापि प्राणिगणस्य पितृतुल्यः, तस्यापि च पिता भगवान , अर्थतस्तेन प्रणीतत्वात् , ततो भगवान् जगत्पितामहः, जयतीति पुनः क्रियाभिधानं तथाधिकाराददुष्टम् ॥ उक्तं च-" सज्झायज्झाणतओसहे ऊवएसु थुइपयाणेसु । संतगुणकित्तणासु य न होंति पुणरुत्तदोसाओ ॥१॥ अनेनापि परार्थसंपदमाह-'भगवान् इति' भगः-समग्रैश्वर्यादिलक्षणः, आह च-ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः। धर्मस्यार्थप्रयत्नस्य षण्णां भग इतीरितः ॥१॥” भगोऽस्यास्तीति भगवान् ॥१॥ जयइ सुयाणं पभवो तित्थयराणं अपच्छिमो जयइ। जयइ गुरूलोगाणं जयइ महप्पा महावीरो ॥२॥ जयतीति पूर्ववत , श्रुताना-खदर्शनपरदर्शनानुगतसकलशास्त्राणां प्रभवन्ति सर्वाणि शास्त्राण्यस्मादिति प्रभवः-प्रथमं उत्पत्तिकारणम्, तीर्थकराणामपश्चिमो जयति, जन्मजरामरणसलिलसुभृतं मिथ्यादर्शनाविरतिगम्भीरं महाभीमकपायपातालं. दुःखग्राह CCCC CA ॥ ३॥ Jan Education For Private Personel Use Only L wjainelorary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy