________________
नन्दिसूत्रम्। ॥ २ ॥
Jain Education
इति वा नन्दिः,—इदमेव प्रस्तुतमध्ययनम्, आविष्टलिङ्गत्वाच्चआध्ययनेऽपि प्रवर्त्तमानस्य नन्दिशब्दस्य पुंस्त्वं, ' इन् सर्वधातुभ्यः' (कौमुदी० उणादौ ) इत्यौणादिक इन् प्रत्ययः, अपरे तु नन्दीति पठन्ति, ते च 'इकू कृष्यादिभ्य' (महाभाष्ये ० ३ अ० ३ पा० १० आ०) इति सूत्रादिप्रत्ययं समानीय स्त्रीत्वेऽपि वर्त्तयन्ति, ततथ ' इतोऽक्त्यर्था ' दिति [ सि. २-४-३२] ङीप्रत्ययः । ' जयति ' इन्द्रिय विषय कषायघातिकर्म्मपरीषहोपसर्गादिशत्रुगणपराजयात् सर्वानप्यतिशेते, इत्थं सर्वातिशायी च भगवान् प्रेक्षावतामवश्यं प्रणामार्हस्ततो जयतीति, किमुक्तं भवति ? तं प्रति प्रणतोऽस्मोति, किं विशिष्टो जयतीत्याह
जय जगजीवजोणी- वियाणओ जगगुरू जगाणंदो । जगनाहो जगबंधू- जयइ जगप्पियामहो भयवं ॥ १ ॥
' जगज्जीवयोनिविज्ञायक: ' जगत्-धर्माधर्माकाशपुद्गलास्तिकायरूपं 'जगत्त्रयं चराचरं' इति वचनात्, जगच्च जीवाश्व योनयश्च जगजीत्रयोनयः तासां विविधं - अनेकप्रकारमुत्पाताद्यनंतधर्मात्मकतया जानाति इति विज्ञायको जगज्जीवयोनिविज्ञायकः, अनेन केवलज्ञानप्रतिपादनात् स्वार्थसंपदमाह, तथा जगत् गृणाति यथा व्यवस्थितं प्रतिपादयति शिष्येभ्य इति जगद्गुरुः । यथावस्थितसकलपदार्थप्रतिपादक इत्यर्थः । तथा 'जगदानंद:' इह जगच्छन्देन संज्ञिपंचेंद्रियपरिग्रहः, तेषामेव भगवद्दर्शनदेशनादित आनंदसंभवात्, ततश्च जगतां - सशिपंचेन्द्रियाणाममृतस्यन्दिमूर्तिदर्शनमात्रतो निःश्रेयसाभ्युदयसाधम्र्योपदेशद्वारेण चानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वात् जगदानंदः, तथा 'जगन्नाथः ' इह जगच्छब्देन सकलचराचरपरिग्रहः, १- आविपुं - गृहीतं प्रतिनियतं लिङ्गा यैस्ते आविष्टलिङ्गाः, लिङ्गान्तरशब्द संबंवेऽपि न स्वलिङ्गा जहति इत्यर्थः ॥
For Private & Personal Use Only
अवचूरीसमलङ्कृतम् ।
॥२॥
w.jainelibrary.org