________________
नन्दिसूत्रम् ॥२०॥
अवचूरिसमलंकृतम्
HANSGROSS OS
अथ कोऽयं अनुयोगः । ? अनुरूपोऽनुकूलो वा योगोऽनुयोगः-सूत्रस्य स्वेनाभिधेयेन सार्द्ध अनुरूपः संबंधः । स च द्विधामूलप्रथमानुयोगो गंडिकानुयोगश्च, इह मूलं-धर्मप्रणयनात् तीर्थकरास्तेषां प्रथम-सम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः । ईक्ष्वादीनां पूर्वापरपर्वपरिच्छिन्नो मध्यभागो गंडिका गंडिका इव गंडिका-एकार्थाधिकाराः ग्रंथपद्धतिः इत्यर्थः । तस्या अनुयोगो गंडिकानुयोगः । अथ कोऽयं मूलप्रथमानुयोगः ? आचार्य आह-मूलप्रथमानुयोगेन अथवा मूलप्रथमानुयोगे णं इति वाक्यालंकारे अर्हतां भगवतां सम्यक्त्वभवात आरभ्य पूर्वभवात देवलोकगमनानि तेषु पूर्वभवेषु देवभवे यत् देवदेवलोकेभ्यः च्यवनं तीर्थकरभवत्वेन उत्पादः ततो जन्मानि ततः शैलराजे सुरासुरैः विधीयमाना अभिषेका इत्यादि पाठसिद्धं यावत् निगमनम् । अथ कोऽयं गंडिकानुयोगः १ सूरिराह-गंडिकानुयोगेन 'ण' इति वाक्यालंकारे, कुलकरगडिकाः । इह सर्वत्रापि अपांतरालवर्तिन्यो बहव्यां प्रतिनियतैकार्थाधिका रूपा गंडिकाः ततो बहुवचनं, कुलकराणां गंडिकाः कुलकरगंडिकाः, यासु कुलकराणां विमलवाहनादीनां पूर्वमेवजन्मनामादीनि सप्रपंच उपवर्ण्यते । एवं तीर्थकरगंडिकादिषु अपि अभिधानवशतो भावनीयं । 'जाव चित्तंतर गंडिआउ' त्ति चित्ता-अनेका अर्थांतरे-ऋषभाजिततीर्थकरअपांतराले गंडिकाः चित्रांतरगंडिकाः, एतत् उक्तं भवति-ऋषभाजिततीर्थकरांतरे ऋषभवंशसमुद्भूतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्तरोपपाते प्राप्तिप्रतिपादिका गंडिकाः चित्रांतरगंडिकाः, तासां च प्ररूपणा पूर्वाचार्यैरेवमकारि-इह सुबुद्धिनामा सगरचक्रवर्तिनो महामात्योऽष्टापदपर्वते सगरचक्रवर्तिसुतेभ्यः आदित्ययशःप्रभृतीनां भगवत् वृषभवंशजानां नरपतीनां एवं संख्यां आख्यातुं उपक्रमते म। आदित्ययशःप्रभृतयो भगवत् नामेयवंशजाः त्रिखंडभरताई अनुपाल्य पर्यते पारमेश्वरीं दीक्षां अभिगृह्य तत्प्रभावतः सकलकर्मक्षयं कृत्वा चतुर्दशलक्षा निरंतरं सिद्धिमगमन् । ततः एकः सर्वार्थ
॥२०३॥
Jain Education
For Private & Personel Use Only
O
jainelibrary.org