________________
नन्दिसूत्रम् ॥१७९॥
Jain Education
ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥ १ ॥" इत्यादि, एवं तृतीयो विकल्प आत्मवादिनां, आत्मवादिनो नाम ये 'पुरुष एवेदं सर्व' इत्यादि प्रतिपन्नाः । चतुर्थो विकल्पो नियतिवादिनां ते हि एवं आहुः - नियतिः नाम' तत्त्वान्तरं अस्ति यद् वशादेते भावाः सर्वेऽपि नियतेन एव रूपेण प्रादुर्भावमनुवते, नान्यथा, तथा हि यत् यदा यदा यतो भवति तत्तदा तत एव नियतेन एव रूपेण भवदुपलभ्यते । अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपावस्था च न भवेत्, नियामकाभावात् । तत एवं कार्यनैयत्यतः प्रतीयमानामेनां नियति को नाम प्रमाणपथकुशलो बाधितुं क्षमते १ मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसंगः। तथा च उक्तं- "नियतेनैव रूपेण, सर्वे भावा भवंति यत् । ततो नियतिजा होते, तत्स्वरूपानुवेधतः ॥ १ ॥ यत् यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात् क एनां बाधितुं क्षमः १ ॥ २ ॥ पंचमो विकल्पः खभाववादिनां ते हि स्वभाववादिन एवं आहुः - इह सर्वे भावाः स्वभाववशात् उपजायते । तथा हि- मृदः कुंभो भवति न पटादि, तन्तुभ्योऽपि पट उपजायते न कुम्भादि, एतच्च प्रतिनियतं न तथा स्वभावतामंतरेण घटाकोटीसंटंकमाटीकते, तस्मात्सकलं इदं स्वभावकृतं अवसेयं । अपि चास्तामन्यत्कार्यजातं इह मुद्रपक्तिः अपि न स्वभावमंतरेण भवितुं अर्हति तथा हि-स्थालींधनकालादिसामग्री भावेऽपि न कांकटुकमुद्गानां पक्तिः उपलभ्यते । तस्मात् यद्यत् भावे भवति [ यदभावे च न भवति ] तत्तदन्वयव्यतिरेकानुविधायि तत् कृतं इति स्वभावकृता मुद्द्रपक्तिः अप्येष्टव्याः, ततः सकलं एव इदं वस्तुजातं स्वभावहेतुकं अवसेयं इति । ततः एवं स्वतः इति पदेन लब्धाः पंच विकल्पाः, एवं परत इति अनेनापि पंच लभ्यंते, परत इति परेभ्यो व्यावृत्तेन रूपेण विद्यते न खलु अयं आत्मा इत्यर्थः । एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः, एवमनित्यपदेनाsपि दश, सर्वे मिलिता विंशतिः, एते च जीवपदार्थेन लब्धाः, एवं अजीवादिषु अपि अष्टसु पदार्थेषु प्रत्येकं
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥ १७९॥
jainelibrary.org