SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ नन्दिसत्रम् ॥१८॥ अवचूरिसमलंकृतम् विंशतिःविकल्पा लभ्यते, ततो विंशतिः नवगुणिताः शतं अशीत्युत्तरं, क्रियावादिनां भवति ॥ तथा न कस्यचित् प्रतिक्षणं अनवस्थितस्य पदार्थस्य क्रिया संभवति उत्पत्त्यनंतरं एव विनाशात् इत्येवं ये वदंति ते अक्रियावादिनः, तथा च आहुःएके"क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया ? भूतियेषां क्रिया सैव, कारणं स एव उच्यते ॥ १ ॥ एते च आत्मादि-5 नास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिसंख्या द्रष्टव्याः, पुण्यापुण्यवर्जितशेषजीवादिपदार्थसप्तकन्यासः, तथैव च जीवादिसप्तकस्य अधः प्रत्येकं स्वपरविकल्पोपादानं, असत्त्वात् आत्मनो नित्यानित्यविकल्पो न स्तः, कालादीनां च पंचानां अधस्तात् षष्ठी यदृच्छा न्यस्यते, इह यदृच्छावादिनः सर्वेऽपि अक्रियावादिन एव, न केचित् अपि क्रियावादिनः ततः प्राग् यदृच्छा नोपन्यस्ता, तत एवं विकल्पाभिलाप:-नास्ति जीवः खतः कालत इति एको विकल्पः, एवं ईश्वरादिभिः अपि यदृच्छापर्यतैः, सर्वेऽपि मिलिताः षड् विकल्पाः, अमीषां च विकल्पानां अर्थः प्राग्वद्भावनीया, नवरं यदृच्छात इति यदृच्छावादिनां मते, अथ के ते- यदृच्छावादिनः ? उच्यते, इह ये भावानां संतानापेक्षया न प्रतिनियतं कार्यकारणभावं इच्छंति किंतु यदृच्छया ते यदृच्छावादिनः, तथा च ते एवं आहुः-"न खलु प्रतिनियतो वस्तूनां कार्यकारणभावस्तथा प्रमाणेन अग्रहणात्, तथा हि शालूकादपि जायते शालूको गोमयात् अपि वढेः अपि वह्निः उपजायते अरणिकाष्ठात् अपि धूमादपि जायते धूमोमीन्धनसंपर्कात अपि कंदात् अपि जायते कदली बीजात् अपि वटादयो बीजादपि जायंते शाखैकदेशात् अपि, ततो न प्रतिनियतः क्वचिदपि कारणकार्यभाव इति यदृच्छातः क्वचित् किंचित् भवति इति प्रतिपत्तव्यं, न खलु अन्यथा च वस्तुसद्भावं पश्यतोऽन्यथा आत्मानं प्रेक्षावंतः परिक्लेशयंति इति । यथा च स्वतः षड् विकल्पा लब्धाः तथा नास्ति परतः कालत इत्येवमपि षड् विकल्पा लभ्यते, सर्वेऽपि मिलिता Jain Education i n For Private & Personel Use Only Kolhjainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy