SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१७८॥ HURRERAKORRAS KASUTA | मंतव्याः. ये कालकृतं एव सर्व जगत् मन्यते । तथा च ते आहुः-न कालमंतरेण चंपकाशोकसहकारादिवनस्पतिकुसुमोद्गमफला अवचूरिबंधादयो हिमकणानुपक्तशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वा ऋतुविभागसंपादिता बालकुमारयौवनपलितागमादयो वावस्थाविशेषा समलंकृतम् घटते, प्रतिनियतकालविभाग एव तेषां उपलभ्यमानत्वात् । अन्यथा सर्वमव्यवस्थया भवेत् , न चैतदृष्टमिष्टं वा, अपि च-मुद्गपक्तिः अपि न कालमंतरेण लोके भवंती दृश्यते । किंतु कालक्रमेण अन्यथा स्थालींधनादिसामग्रीसंपर्कसंभवे प्रथमसमयेऽपि तस्याभावप्रसंगो न च भवति, तस्मात् यत्कृतकं तत्सर्व कालकृतं इति । तथा च उक्तं-"न कालव्यतिरेकेण, गर्भवालशुभादिकं । यत्किचिजायते लोके, | तदसौ कारणं किल ॥१॥ किं च कालादृते नैव मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिसंनिधानेऽपि, ततः कालादसौ मता ॥२॥ कालाभावे ६च गर्भादि, सर्व स्यादव्यवस्थया । परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ॥ ३॥ कालः पचति भूतानि, कालः संहरति प्रजाः । कालः18 सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः॥४॥" अत्र 'परेष्टहेतुसद्भावमात्रादिति पराभिमतवनितापुरुषसंयोगादिमात्ररूपहेतुसद्भाव| मात्रादेव 'तदुद्भवादिति गर्भादि उद्भवप्रसंगात् , तथा कालः पचति-परिपाकं नयति परिणतिं नयति, 'भूतानि' पृथिव्यादीनि, तथा कालः संहरति प्रजाः-पूर्वपर्यायान् प्रच्याव्य पर्यायांतरेण प्रजाः लोकान् स्थापयति । तथा कालः सुप्तेषु जनेषु जागर्ति, काल एव तं तं सुप्तं जनमापदो रक्षति इति भावः, तस्मात् हि स्फुटं दुरतिक्रमोऽपाकर्तुमशक्यः काल इति । उक्तेन एव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यः । नवरं कालवादिनः इति वक्तव्ये ईश्वरवादिन इति वक्तव्यं, तद्यथा-अस्ति जीवः स्वतो नित्यः ईश्वरतः, ईश्वरवादिनश्च सर्वे ॥१७८॥ जगत् ईश्वरकृतं मन्यते, ईश्वरं च सहसिद्धज्ञानवैराग्यधम्मैश्वर्यरूपं चतुष्टयं प्राणिनां च वर्गापवर्गयोः प्रेरकं इति । तदुक्तं-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वयं चैव धर्मश्च, सहसिद्धं चतुष्टयं ॥१॥ "अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । SEARCANCY Jain Education For Private Personal use only Vanesbrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy