________________
मन्दिसत्रम् ॥१६॥
अवसि समलंकन
SARAN
अपेक्षया जीव इव, अव्यवच्छित्तिप्रतिपादनपरो नयः तस्य अर्थों अव्यवच्छिचिनयार्थो, द्रव्यमित्यर्थः, तद्भावः तत्ता तया, द्रव्यापेक्षया इत्यर्थः, किमित्याह-अनाद्यपर्यवसितं त्रिकालावस्थायित्वात् जीववत्, अधिकृतं एव अर्थ द्रव्यक्षेत्रादिचतुष्टयं अधिकृत्य प्रतिपादयति । 'तत् श्रुतज्ञानं 'समासतः संक्षेपेण चतुर्विध प्रज्ञतं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'णमिति वाक्यालंकारे सम्यक् श्रुतं एकं पुरुषं प्रतीत्य सादिपर्यवसितं, कथमिति चेद् १, उच्यते । सम्यच्याप्तौ तत् प्रथमपाठतो वा सादि, पुनः मिथ्यात्वप्राप्तौ सति वा सम्यक्त्वे प्रमादभावतो महाग्लानत्वभावतो वा परलोकगमनसंभवतो वा विस्मृति उपगते केवलज्ञानोत्पत्तिभावतो वा सर्वथा विप्रनष्टे सपर्यवसितं । बहून् पुरुषान् कालत्रयवर्चिनः पुनः प्रतीत्य अनादिअपर्यवसितं, संतानेन प्रवृत्त्वात् , कालवद, तथा क्षेत्रतो 'ण' इति वाक्यालंकारे पंच भरतानि पंच ऐरवतानि प्रतीत्य सादिसपर्यवसानं, कथं ?, उच्यते, तेषु क्षेत्रेषु अवसपिण्यां सुखमदुःखमापर्यवसाने उत्सपिण्यां तु दुःखमसुखमाप्रारंभे तीर्थकरधर्मसंघानां प्रथमतया उत्पत्तेः सादि, एकांतदुःखमादौ च काले तदभावात सपर्यवसितं । तथा महाविदेहान् प्रतीत्य अनादि अपर्यवसितं, तत्र प्रवाहापेक्षया तीर्थकरादीनां अव्यवच्छेदात तथा कालतो 'ण' इति वाक्यालंकारे, अवसपिण्यां उत्सपिण्यां च प्रतीत्य सादिसपर्यवसितं, तथाहि-अवसपिण्यां तिसृष्वेव समासु सुखम| दुःखमादुःखमसुखमादुःखमारूपासु, उत्सर्पिण्यां तु द्वयोः समयोः दुःखमसुखमासुखमदुःखमारूपयोः भवति न परतः, ततः सादि सपर्यवसानं अत्र उत्सपिणिअवसप्पिणीखरूपज्ञापनार्थ कालचक्र विंशतिसागरोपमकोटाकोटीप्रमाणं विनेयजनानुग्रहार्थ यथा मूलवृचिकृता दर्शितं तथा वयं अपि दर्शयामः-चचारिसागरोषमकोडाकोडीउ संतई एउ। एग तसुस्समा खलु जिणेहिं सन्वेहि निदिवा ॥११॥ इत्यादि, नोत्सपिणी नोवसर्पिणीं च प्रतीत्य अनादि अपर्यवसितं, महाविदेहेषु हि नोउत्सपिणि नोअवसर्पिणीरूपः
॥१६॥
Jain Education Hiri
For Private Personel Use Only
INMainelibrary.org