________________
नन्दित्रम्
-
सम
॥१६॥
।
XSAROSSASSIS
कालस्तत्र च सदा एव अवस्थितं सम्यक् श्रुतं इति अनादिअपर्यवसितं, तथा भावतो 'ण' इति वाक्यालंकारे, 'य' इति अनिर्दिष्ट निर्देशे ये केचन यदा पूर्वाहादौ जिनैः प्रज्ञप्ता जिनप्रज्ञप्ता भावाः-पदार्थाः। 'आषविजंतिति प्राकृतत्वात् आख्यायंते, सामान्यरूपतया विशेषरूपतया वा कथ्यते इत्यर्थः। प्रज्ञाप्यते नामादिभेदप्रदर्शनेन आख्यायंते, तेषां नामादयो मेदाः प्रदश्यते इत्यर्थः । प्ररूप्यते नामादिभेदस्वरूपकथनेन प्रख्यायंते नामादीनां मेदानां खरूपं आख्यायते इति भावार्थः, तथा दश्यते उपमानमात्रोपदर्शनेन प्रकटीक्रियते । यथा गौः इव गवय इत्यादि, तथा निदश्यते-हेतुदृष्टांतोपदर्शनेन स्पष्टतरीक्रियते । उपदश्यते-उपनयनिगमनाम्यां निःशंक शिष्यबुद्धौ स्थाप्यते । अथवा उपदश्यते-सकलनयाभिप्रायावतारणतः पटुप्रज्ञशिष्यबुद्धिषु व्यवस्थाप्यंते, वान् भावान् 'तदा' तस्मिन् काले तथा आख्यायमानान् प्रतीत्य सादिसपर्यवसितं, एतदुक्तं भवति, तस्मिन् काले तं तं प्रज्ञापकोपयोगं स्वरविशेष प्रयत्नविशेष आसनविशेष अंगविन्यासादिकं च प्रतीत्य सादिसपर्यवसितं, उपयोगादेः प्रतिकालमन्यथाभवनात् । क्षायोपशमिकं भावं पुनः प्रतीत्य अनादि अपर्यवसितं, प्रवाहरूपेण क्षायोपशमिकभावस्य अनादि-अपर्यवसितत्वात् । अथवा इति प्रकारांतरोपदर्शने मवसिद्धिको-भव्यः तस्य सम्यक् श्रुतं सादिपर्यवसितं, सम्यक्त्वलामे प्रथमतया भावात् । भूतो मिथ्यात्वप्राप्तौ केवलोत्पत्तौ वा विनाशात् , अभवसिद्धिकोऽभव्यः तस्य श्रुतं मिथ्याश्रुतं अनादि अपर्यवसितं, तस्य स एव सम्यवादिगुणहीनत्वात् , सर्व च तदाकाशं च-सर्वाकाशं, लोकालोकाकाशं इत्यर्थः, तस्य प्रदेशा:-निर्विभागा भागाः सर्वाकाशप्रदेशाः तेषां अग्रं-परिमाणं सर्वाकाशप्रदेशा तत्सर्वाकाशप्रदेशः अनंतगुपितं अनंतशो गुणितं एकैकस्मिन् आकाशप्रदेशेऽनंतागुरुलघुपर्यायभावात् पर्यायाग्राक्षरं निष्पद्यते-दयमत्र भावना-सर्वाकाशप्रदेशपरिमाणं सर्वाकाशप्रदेशः अनंतशो गुणितं यावत् परिमाणं भवति तावत्प्रमाणं सर्वाकाशप्रदेशपर्यायाणां अग्रं भवति, एकैकस्मिन् आकाशप्रदेशे
Jain Education
Sena
For Private Personel Use Only
Ghjainelibrary.org