________________
बन्दिसूत्रम् ॥१५८।।
Jain Education
बुद्धिमतिविकल्पितं, स्वबुद्धिकल्पनाशिल्पिनिम्मितं इत्यर्थः । तद्यथा - 'भारतं इत्यादि यावत् चत्तारि वेयासंगोवंगा' भारतादयश्च ग्रंथा लोके प्रसिद्धाः ततो लोकत एव तेषां स्वरूपं अवगंतव्यम् । ते च स्वरूपतो यथावस्थितवस्तु अभिधानविकलतया मिथ्याश्रुतमवसेयम् । एतेऽपि च स्वामिसंबंधर्चितायां भाज्यास्तथा च आह— एतानि - भारतादीनि शास्त्राणि मिथ्यात्वपरिगृहीतानि भवंति । ततो विपरीताभिनिवेशवृद्धिहेतुत्वात् मिथ्या श्रुतम् । एतानि एव च भारतादीनि शास्त्राणि सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि भवंति सम्यक्त्वेनयथावस्थितासारतापरिभावनरूपेण परिगृहीतानि तस्य सम्यग् श्रुतम्, तद्गतासारतादर्शनेन स्थिरतरसम्यक्त्वपरिणाम हेतुत्वात् । अथव मिध्यादृष्टेः अपि सतः कस्यचित् एतानि भारतादीनि शास्त्राणि सम्यक् श्रुतं, शिष्य आह- कस्मात् !, आचार्य आह – सम्यक्त्वहेतुत्वात्, सम्यक्त्वहेतुत्वं एव भावयति, यस्मात् ते मिथ्यादृष्टयः तैः एव समयैः- सिद्धांतैः वेदादिभिः पूर्वापरविरोधेन - यथा रागादिपरीतः पुरुषः तावन्नातींद्रियं अर्थमवबुद्ध्यते रागादिपरीतत्वात् अस्मादृशवत्, वेदेषु च अतींद्रियाः प्रायोऽर्था व्यावर्ण्यतेऽतींद्रियार्थदर्शी च वीतरागः सर्वज्ञो नाभ्युपगम्यते ततः कथं वेदार्थः प्रतीतः इत्येवमादिलक्षणेन नोदिताः संतः केचन विवेकिनः सत्यादय इव स्वपक्षदृष्टीः– स्वदर्शनानि त्यजंति । भगवत्-शासनं प्रतिपद्यन्ते इत्यर्थः । तत एवं सम्यक्त्व हेतुत्वात् वेदादीनि अपि शास्त्राणि केषांचित् मिथ्यादृष्टीनां अपि सम्यक् श्रुतं, तदेतत् मिथ्याश्रुतम् ।
से किं तं साइअं सपज्जवसिअं, अणाइअं अपज्जवसियं सुयं ? साइअं सपज्जवसिअं, अणाइअं अपजवसिअं सुयं-इच्चेइयं दुवालसँगं गणिपिडगं, बुच्छित्ति नयट्टयाए आइअं सपज्जवसिअं, अवच्छित्ति नयट्टयाएअणाइअअपज्जवसिअं तं समासओ चउबिहं पन्नतं तं जहा- दव्वओ, खित्तओ,
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥ १५८ ॥
jainelibrary.org