SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१५४॥ संज्ञी लभ्यते, न वरं अस्य संचिंतनं प्रायो वर्तमानकालविषयं च भूतभविष्यद्विषयं इति न कालिक्युपदेशेन संज्ञी लभ्यते । यस्य अवचूरिपुनः नास्ति अभिसंधारणपूर्विका करणशक्तिः स प्राणी 'ण' इति वाक्यालंकारे हेतूपदेशेन अपि असंज्ञी लभ्यते, स च पृथिव्यादिः | समलंकृतम् | एकेंद्रियो वेदितव्यः, तस्यामिसंधिपूर्वकं इष्टानिष्टप्रवृत्तिनिवृत्त्यसंभवात् , या अपि च आहारादिसंज्ञा पृथिव्यादीनां वर्तन्ते तार | अपि अत्यंत अव्यक्तरूपा इति तत् अपेक्षयापि न तेषां संजिवव्यपदेशः, अन्यत्रापि हेतूपदेशेन संज्ञित्वं आश्रित्य उक्तं 'कृ पतंगाद्याः समनस्काः जंगमाश्चतुर्भेदाः। अमनस्काः पंचविधाः पृथिवीकायादयो जीवाः । सोऽयं हेतूपदेशेन संज्ञी । अथ कोऽयं दृष्टिवादोपदेशेन संज्ञी?, दृष्टिः दर्शन-सम्यक्त्वादिवदनं वादः तदपदेशेन, तदपेक्षया इत्यर्थः, आचार्य आह-दृष्टिवादोपदेशेन संज्ञिश्रुतस्य क्षयोपशमन संज्ञी लभ्यते, संज्ञानं संज्ञा-सम्यग्ज्ञानं तत् अस्यास्ति स संज्ञी-सम्यग्दृष्टिः तस्य यत् श्रुतं तत् संज्ञिश्रुतं, सम्यग् श्रुतं इति भावार्थः। तस्य क्षयोपशमेन-तदावारकस्य कर्मणः क्षयोपशमभावे संज्ञी लभ्यते, किमुक्तं भवति । सम्यग्दृष्टिः |क्षायोपशमिकज्ञानयुक्तो दृष्टिवादोपदेशेन संज्ञी भवति । स च यथाशक्तिरागादिनिग्रहपरो वेदितव्यः, स हि सम्यग्दृष्टिः सम्यग् | ज्ञानी वा यो रागादीन् निगृहणाति, अन्यथा हिताहितप्रवृत्तिनिवृत्ति अभावतः सम्यग्दृष्टित्वाद्ययोगात् । उक्तं च-तत् ज्ञान एव न भवति यस्मिन् उदिते विभाति रागगणः। तमसः कुतोऽस्ति शक्तिः दिनकरकिरणाग्रतः स्थातुं ॥ अन्यस्तु मिथ्यादृष्टिः असंज्ञी, तथा च आह-'असंज्ञिश्रुतस्य' मिथ्याश्रुतस्य क्षयोपशमेन असंज्ञीति लभ्यते, सोऽयं दृष्टिवादोपदेशेन संज्ञी। तदेवं संज्ञिनः त्रिभेदत्वाद नोटसाता ॥१५४|| श्रुतमपि तत् उपाधिमेदात् त्रिविधं उपन्यस्तम् । अत्राह-ननु प्रथमं हेतूपदेशेन संज्ञी वक्तुं युज्यते, हेतूपदेशेन अल्पमनोलब्धिसंपन्नस्यापि दींद्रियादेः संशित्वेन अभ्युपगमात् तस्य च अविशुद्धतरत्वात । ततः कालिक्युपदेशेन हेतूपदेशसंज्ञापेक्षया कालिक्युप Jain Education in For Private Personal Use Only mjainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy