________________
नन्दिसूत्रम्
॥१५३॥
न. सू. १३
Jain Education In
वाक्यालंकारे संज्ञी इति लभ्यते । स च गर्भव्युत्क्रांतिकः पुरुषादिः - औपपातिकच देवादिर्मनः पर्याप्तियुक्तो विज्ञेयः । तस्य एव त्रिकाल - विषयचिन्ताविमर्शादिसंभवात्, एष च प्रायः सर्वमपि अर्थ स्फुटरूपं उपलभते, तथा हि-यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुटं अर्थ उपलभते तथा एषोऽपि मनोलब्धिसंपन्नो मनोद्रव्यावष्टंभसमुत्थविमर्शवशतः पूर्वापरानुसंधानेन यथावस्थितं स्फुटं अर्थ उपलभते, यस् पुनः नास्ति ईहा अपोहो मार्गणा गवेषणा चिंता विमर्शः सोऽसंज्ञी इति लभ्यते । स च संमूच्छिम पंचेंद्रिय विकलेंद्रियादिर्विज्ञेयः, स हि स्वल्पखल्पतरमनोलब्धिसंपन्नत्वात् अस्फुटमस्फुटतरं अर्थ जानाति । तथा हि-संज्ञिपंचेंद्रियापेक्षया संमूर्छिमपंचेंद्रियोऽस्फुटं अर्थ जानाति । ततोऽपि अस्फुटं चतुरिंद्रियः, ततोऽपि अस्फुटतरं श्रींद्रियः, ततोऽप्यस्फुटतमं द्वींद्रियः, ततोऽपि अस्फुटतमं एकेंद्रियः, तस्य प्रायो मनोद्रव्यासंभवात्, केवलं अव्यक्तं एव किंचित् अतीव अल्पतरं मनो द्रष्टव्यम्, यद्वशात् आहारादिसंज्ञा अव्यक्तरूपाः प्रादुःषंति, सोऽयं कालिक्युपदेशेन संज्ञी । अथ कोऽयं हेतुपदेशेन संज्ञी ?, हेतुः कारणं निमित्तं इति अनर्थांतरं, उपदेशनं उपदेशः हेतोः उपदेशनं हेतूपदेशः तेन किं उक्तं भवति १ । कोऽयं संज्ञित्वनिबंधनं हेतुं उपलभ्य कालिक्युपदेशेन असंज्ञयपि संज्ञी इति व्यवह्रियते १ । आचार्य आह - हेतूपदेशेन संज्ञी यस्य प्राणिनोऽस्ति - विद्यते अभिसंधारण - अव्यक्तेन व्यक्तेन वा विज्ञानेन आलोचनं तत् पूर्विका - तत् कारणिका 'करणशक्तिः करणं क्रिया तस्यां शक्तिः - प्रवृत्तिः स प्राणी 'णं' इति वाक्यालंकारे हेतुपदेशेन संज्ञीति लभ्यते । एतदुक्तं भवति यो बुद्धिपूर्वकं खदेहपरिपालनार्थ इष्टेषु आहारादिषु वस्तुषु प्रवर्त्तते अनिष्टेभ्यश्च निवर्त्तते स हेतुपदेशेन संज्ञी स च द्वींद्रियादिः अपि वेदितव्यः, तथा हि- इष्टानिष्टविषयप्रवृत्तिनिवृत्तिसंचिंतनं न मनोव्यापारमंतरेण संभवति । मनसा च पर्यालोचनं संज्ञा, सा च द्वींद्रियादेः अपि विद्यते, तस्यापि प्रतिनियत इष्टानिष्टविषयप्रवृत्तिनिवृचिदर्शनात् । ततो द्वींद्रियादिः अपि हेतुपदेशेन
For Private & Personal Use Only
अवचूरिसमलङ्कृतम्
॥१५३॥
jainelibrary.org