________________
नन्दिसूत्रम् ॥१४५॥
Jain Education;
शब्दार्थः । तथा ईहा अपायच, चशब्दः पृथगवग्रहादिस्वरूपस्वातंत्र्यप्रदर्शनार्थः, अवग्रहादयः परस्परं पर्याया न भवति इति भावार्थः, अथवा चशब्दः समुच्चये, तस्य च व्यवहितः प्रयोगो धारणा च इत्येषं द्रष्टव्यम् । एवकारः क्रमप्रदर्शनार्थः एवमनेन क्रमेण 'समासेन' संक्षेपेण चत्वारि आभिनिबोधिकज्ञानस्य भिद्यंते इति मेदा विकल्पा अंशा इत्यर्थः । त एव वस्तूनि भवति, तथाहि-न अनवगृहीतं ईझते न अनीहितं निश्चीयते न अनिश्चितं धार्यते इति ॥ १ ॥ इदानीं एतेषां एव अवग्रहादीनां स्वरूपं प्रतिपिपादयिषुराह - अर्थानां - रूपादीनां अवग्रहणं चशब्दो अवग्रहणस्य अव्यक्तत्वसामान्यमात्र सामान्यविशेषविषयत्वापेक्षया स्वगतभेदबाहुल्यसूचकः, अवग्रहं ब्रुवते इति योगः, 'तथा' इति आनंतर्यविचारणं-पर्यालोचनं अर्थानां इति वर्त्तते, ईहां ब्रुवते, तथा विविधोऽवसायो [ व्यवसायो ]-निर्णयः तं च अर्थानामिति वर्त्तते । अपायं ब्रुवते इति संसर्गः, धरणं पुनः अर्थानां अविच्युतिस्मृतिवासनारूपां धारणां ब्रुवते तीर्थकरगणधराः ॥ २ ॥ इदानीं अभिहितस्वरूपाणां अवग्रहादीनां कालप्रमाणं अभिधित्सुराह - अवग्रहोऽर्थावग्रहो नैथयिक एकं समयं यावत् भवति, समयः परम निकृष्टः कालविभागः, स च प्रवचनप्रतिपादितात् उत्पलपत्रशतव्यतिभेदोदाहरणात् जरत्पट्टशाटिकापाटनदृष्टान्तात् च अवसेयः, व्यंजनावग्रहविशेषसामान्यार्थावग्रहौ तु पृथगू २ अंतर्मुहूर्तप्रमाणौ ज्ञातव्यौ, ईहा च अपायश्च ईहापायौ, मुहूर्तो घटिकाद्वय प्रमाणः, कालविशेषः तस्यार्द्धं मुहूर्तार्द्धं, तुशब्दो विशेषणार्थः, स च एतद्विशिनष्टि-व्यवहारापेक्षया एतद्मुहूर्तार्द्ध इति उच्यते, परमार्थतः पुनः अंतमुहूर्त्तमवसेयं, अन्ये पुनः एवं पठंति- " मुहुत्तमं तं तु” अत्र मकारोऽलाक्षणिकः, तत एवं द्रष्टव्यं - मुहूर्तातः - मुहूर्तस्य अंतर्मध्यं मुहूर्तातः, अंतर्मुहूर्तमित्यर्थः । इह 'पारे मध्येऽग्रेऽतः पष्ट्या वा' इति विकल्पेन अंतःशब्दस्य प्राग् निपातो भवति, ततः सूत्रे अंतःशब्दस्य प्राग्निपातो न विहितः । तथा धारणा कालं असंख्येयं - पल्योपमादिलक्षणं, संख्येयं च - वर्षादिरूपं यावत् भवति ज्ञातव्या, धारणा च
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥१४५॥
jainelibrary.org