SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥१४६॥ XX SEASESTUSSEAU इह वासनारूपा द्रष्टव्या, अविच्युतिस्मृती तु प्रत्येकं अंतमुहर्तप्रमाणे वेदितव्ये । ३। तत एवं अवग्रहादीनां स्वरूपं अभिधाय श्रोत्रंद्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराह-इह श्रोत्रंद्रियेण शब्दं शृणोति स्पृष्टं-स्पृष्टमात्रं, स्पृष्टं नाम आलिंगितं यथा तनौ रेणुसंघातः, अथ कथं स्पृष्टमात्रं एव शब्दं शृणोति ?, उच्यते । इह शेषंद्रियगणापेक्षया श्रोत्रंद्रियं अतिशयेन पटु, तथा गंधादिद्रव्यापेक्षया शब्दद्रव्याणि सूक्ष्मानि प्रभूतानि भावुकानि च, अत एव सर्वतः तदिद्रियं व्याप्नुवंति । ततस्तानि स्पृष्टमात्राणि अपि श्रोत्रंद्रियेण ग्रहीतुं शक्यते, रूपं पुनः पश्यति । अस्पष्टं तु अस्पृष्टं एव, तुः एवकारार्थः, अप्राप्यकारित्वात् चक्षुषः, तथा गंधं रसं च स्पर्श च, चशब्दौ समुच्चयार्थों, बद्धस्पृष्टं घ्राणादिभिः इंद्रियैः विनिश्चिनोति इति व्यागृणीयात् । इह बद्धस्पृष्टं इति स्पृष्टबद्धं इति विज्ञेयं, प्राकृतशैल्या च अन्यथा सूत्रे उपन्यासः, तत्र स्पृष्टं इति आलिंगितं बढ़-तोयवत् आत्मप्रदेशैः आत्मीकृतं आलिंगितानंतरं आत्मप्रदेशैः आगृहीतं इत्यर्थः । इह शब्दं उत्कर्षतो द्वादशयोजनेभ्यः आगतं शृणोति, न परतः, शेषाणि तु गंधादिद्रव्याणि प्रत्येकं नवभ्यो २ योजनेभ्यः आगतानि घाणादिभिः इंद्रियैः गृह्णाति जीवो न परतः, परतः समागतानां द्रव्याणां मंदपरिणामतया इंद्रियग्राह्यत्वासंभवात् । जघन्यतस्तु शब्दादिद्रव्याणि अंगुलासंख्येयभागात् आगतानि, चक्षुषस्तु जघन्यतो योग्यो विषयोऽगुलासंख्येयभागवर्ती | वेदितव्यः, उत्कर्षतस्तु आत्मांगुलेन सातिरेको योजनलक्षः, एतदपि चाभासुरद्रव्यं अधिकृत्य उच्यते । भासुरं द्रव्यं एकविंशतियोजन-| लक्षेभ्योऽपि परतः पश्यति । यथा पुष्करवरद्वीपार्द्ध मानुषोत्तरनगप्रत्यासन्नवर्तिनः कर्कसंक्राती सूर्यबिंब, तथा च उक्तं-"लक्खेहि एक्कवीसाए साइरेगेहि पुक्खरद्धम्मि । उदये पेछंति नरा सूरं उक्कोसए दिवसे ॥१॥" अत्राह-ननु स्पृष्टं शृणोति शब्द इत्युक्तं, तत्र शब्दप्रयोगोत्सृष्टानि एव केवलानि शब्दद्रव्याणि, शृणोति उत अन्यानि एव तत् भावितानि आहोश्चित् मिश्राणि इति, ? उच्यते, न | ॥१४६॥ For Private 3 Personal Use Only V inelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy