________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
॥१३॥
सोइंदियवंजणुग्गहे, घाणेंदियवंजणुग्गहे, जिभिदियवंजणुग्गहे,
फासिंदियवंजणुग्गहे । सेत्तं वंजणुग्गहे। अथ कोऽयं व्यंजनावग्रहः?, आचार्य आह-व्यंजनावग्रहः चतुर्विधः प्रज्ञप्तः, तद्यथा-'श्रोत्रंद्रियव्यंजनावग्रह' इत्यादि, अत्र आह-सत्सु पंचसु इंद्रियेषु षष्ठे च मनसि कस्मात् अयं चतुर्विधो व्यावयेते ?, उच्यते, इह व्यंजनं उपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं संबंध उच्यते, संबंधश्चतुर्णा एव श्रोत्रंद्रियादीनां, न नयनमनसोः, तयोः अप्राप्यकारित्वात् , आह-कथं अप्राप्यकारित्वं तयोः अवसीयते ?, उच्यते, विषयकृतानुग्रहोपघाताभावात् , तथाहि-यदि प्राप्तं अर्थ चक्षुः मनो वा गृह्णीयात् तर्हि यथा स्पर्शनेंद्रियं स्रक्चंदनादिकं अंगारादिकं च प्राप्तमर्थ परिच्छिदन् तत्कृतानुग्रहोपघातभाग् भवति । तथा चक्षुः मनसी अपि भवेतां, विशेषाभावात् , न च भवतः तस्मादप्राप्यकारिणी ते, ननु दृश्यते एव चक्षुषो विषयकृतौ अनुग्रहोपघाती, तथाहि-घनपटलविनिमुक्ते नभसि सर्वतो निबिडजरठिमोपेतं करप्रसरमभिसर्पयन्तमंशुमालिनमनवरतं अवलोकमानस्य भवति चक्षुषो विघातः, शशांककरकदंबकं यदि वा तरंगमालोपशोभितं जलं तरुमंडलं च शाड्वलं निरंतरं निरीक्ष्यमाणस्य च अनुग्रहः, तदेतदपरिभावितभाषितं, यतो न ब्रूमः सर्वथा विषयकृतानुग्रहोपघातौ न भवतः, किं त्वेतावदेव वदामो-यदा विषयं विषयतया चक्षुरवलंबते तदा तत्कृतावनुग्रहोपघातौ तस्य न भवत इति तदप्राप्यकारि, शेषकालं तु प्राप्तेनोपघातकेनोपघातो भविष्यत्यनुग्राहकेण चानुग्रहः । अथ कतिविधोऽयमर्थावग्रहः १, सूरिराह
से किं तं अत्थुग्गहे ? अत्थुग्गहे छिवहे पन्नत्ते तं जहा-सोइंदिय
॥१३॥
Jain Education
a l
For Private & Personal Use Only
C
ainelibrary.org