________________
नन्दिसूत्रम्
| अवचूरि
समलंकृतम्
१३२॥
अत्थुग्गहे । चक्खिदियअत्थुग्गहे । घाणिदियअत्थुग्गहे। जिभिदियअत्थुग्गहे । फासिंदियअत्थुग्गहे । नोइंदियअत्थुग्गहे। तस्स णं इमं एगहिआ नाणाघोसा नाणावंजणा पंच नामधिज्जा भवति, तं जहा-ओगेण्हणया उवधारणया सवणया अवलंबणयाँ
मेहीं । से त्तं उग्गहे। अर्थावग्रहः षविधः प्रज्ञप्तः, तद्यथा-श्रोत्रंद्रियार्थावग्रह इत्यादि, श्रोत्रंद्रियार्थावग्रहो व्यंजनावग्रहोत्तरकालं एकसामयिकं अनिर्देश्यसामान्यरूपार्थाऽवग्रहणं श्रोत्रंद्रियार्थावग्रहः, एवं घ्राणजिह्वास्पर्शनेंद्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यंजनावग्रहो न भवति, ततस्तयोः प्रथम एव स्वरूपं द्रव्यगुणक्रियाविकल्पनाऽतीतं अनिर्देश्यसामान्यमात्ररूपार्थावग्रहणं अर्थावग्रहोवसेयः॥ तत्र नोईद्रियं-मनः, तच्च द्विधा-द्रव्यरूपं भावरूपं च, तत्र मनःपर्याप्तिनामकर्मोदयतो यत् मनःप्रायोग्यवर्गणादलिकं आदाय मनस्त्वेन परिणामितं तत् द्रव्यरूपं मनः, तथा द्रव्यमनोऽवष्टंभेन जीवस्य यो मननपरिणामः स भावमनः, तत्र इह भावमनसा प्रयोजनं, तत्ग्रहणे हि अवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोतरेण भावमनसोऽसंभवात् , भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थकेवलिनः, तत उच्यते-भावमनसा इह प्रयोजनं, तत्र नोइंद्रियेण-भावमनसार्थावग्रहो द्रव्येंद्रियव्यापारनिरपेक्षो | घटाद्यर्थखरूपपरिभावनाऽभिमुखः प्रथमं एकसामयिको रूपाधूोककारादिविशेषचिंताविकलोऽनिर्देश्यसामान्यमात्रचिंतात्मको बोधो नोइंद्रियार्थावग्रहः ॥ 'तस्य' सामान्येन अवग्रहस्य 'ण' इति वाक्यालंकारे 'अमृनि वक्ष्यमाणानि एकाथिकानि नानाघोषा-उदा
॥१३२॥
Jain Education
For Private Personal Use Only
K
ainelibrary.org