________________
| अवचूरि
नन्दिसूत्रम् ॥१२४॥
समलंकृतम्
SEARC
भणसि तर्हि सर्वान् अपि अधोमुखान् पातयामि यद्वा ऊर्ध्वमुखान् अथवा पावस्थितानिति, ततः सोऽधिकतरं विस्मितचेताः प्राह-पातय सर्वानपि अधोमुखानिति, विस्तारितो भूमौ पटः, पातिताः सर्वेऽपि अधोमुखाः मुद्गाः, जातो महान् विस्मयः चौरस्य, प्रशंसितं भूयोभूयः तस्य कौशलं अहो विज्ञानमिति, वदति चौरो-यदि न अधोमुखाः पातिता अभविष्यन् ततो नियमात् त्वां अहं अमारयिष्यमिति । कर्षकस्य चौरस्य च कर्मजा बुद्धिः ॥२॥ 'कोलिय'त्ति कौलिकः-तंतुवायः, स मुख्या तंतूनादाय जानाति-एतावद्भिः कंडकैः पटो | भविष्यति ॥३॥ 'डोवेत्ति दर्वी वर्द्धकिः जानाति-एतावत् अत्र मास्यति इति ॥ ४ ॥ 'मुत्ति'त्ति मणिकारो मौक्तिकं आकाशे प्रक्षिप्य शूकरवालं तथा धारयति यथा पततो मौक्तिकस्य रंधे स प्रविशति इति ॥ ५॥ 'घय'त्ति घृतविक्रयी स्वविज्ञानप्रकर्षप्राप्तो यदि रोचते तर्हि शकटे स्थितोऽधस्तात् कुंडिकानालेऽपि घृतं प्रक्षिपति ॥ ६॥ 'पवय'त्ति प्लवकः, स च आकाशस्थितानि करणानि करोति ॥७॥ 'तुण्णाए ति सीवनकर्मकर्ता, स च स्वविज्ञानप्रकर्षप्राप्तः तथा सीवति यथा प्रायः केनापि न लक्ष्यते ॥८॥'वड्डई'ति वर्द्धकिः, स च स्वविज्ञानप्रकर्षप्राप्तो अमित्वापि देवकुलरथादीनां प्रमाणं जानाति ॥९॥ 'पूयइति आपूपिकः, स च अमित्वापि आपूपानां दलस्य मानं जानाति ॥ १० ॥ 'घड'चि घटकारः स्वविज्ञानप्रकर्षप्राप्तः प्रथमत एव प्रमाणयुक्तां मृदं गृह्णाति ॥ ११॥ 'चित्तकरे'त्ति चित्रकारः, स च रूपकभूमिकां अमित्वापि रूपकप्रमाणं जानाति तावन्मानं वा वर्ण कुंचिकया गृह्णाति यावन्मात्रेण प्रयोजनं इति ॥ १२॥ उक्ता कर्मजा बुद्धिः। संप्रति पारिणामिक्या लक्षणं आह
अणुमाणहेउदिढतसाहिआ वयविवागपरिणामा । हिअनिस्सेअसफलवई बुद्धी परिणामिआ नाम ॥ ११ ॥
USOSASSARI
S
5
॥१२॥
ALG
Jain Education
in
For Private & Personel Use Only
ainelibrary.org