________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
॥१२॥
हेरनिए करिसए कोलिय डोवे ये मुत्ति घर्य पवएँ ॥
तुण्णाएं वहुई ये पूयई घडे चित्तकोरे य॥९॥ 'उवओग' इत्यादि उपयोजनं उपयोगो-विवक्षितकर्मणि मनसोऽभिनिवेशः सार:-तस्य एव विवक्षितकर्मणः परमार्थः, उपयोगेन दृष्टः सारो यया सा उपयोगदृष्टसारा, अभिनिवेशोपलब्धकर्मपरमार्था इत्यर्थः, तथा कर्मणि प्रसंगोऽभ्यासः परिघोलनंविचारस्ताभ्यां विशाला-विस्तारं उपगता कर्मप्रसंगपरिघोलनविशाला, तथा साधुकृतं-सुष्टुकृतं इति विवदद्भयः (विद्गद्भिः) प्रशंसा साधुकारः तेन युक्तं फलं साधुकारफलं तत्-वती, साधुकारपुरस्सरं वेतनादिलाभरूपं तस्याः फलं इत्यर्थः, सा तथा कर्म समुत्था भवति बुद्धिः॥९॥ अस्या अपि विनेयजनानुग्रहार्थ उदाहरणैः स्वरूपं दर्शयति-हेरणिए' इत्यादौ षष्ठ्यर्थे सप्तमी, ततोऽयमर्थः-हैरण्यकोहैरण्यकस्य कर्मजा बुद्धिः, एवं सर्वत्रापि योजना कार्या, हैरण्यको हि स्वविज्ञानप्रकर्षप्राप्तोऽन्धकारेऽपि हस्तस्पर्शविशेषेण रूपकं यथा| वस्थितं परीक्ष्यते ॥ १ ॥ 'करिसग'त्ति अत्र उदाहरणं, कोऽपि तस्करो रात्रौ वणिजो गृहे पद्माकारं खातं खातवान् , ततः प्रातरलक्षितः तस्मिन् एव गृहे समागत्य जनेभ्यः प्रशंसां आकर्णयति, तत्र एकः कर्षकोऽब्रवीत्-किं नाम शिक्षितस्य दुष्करत्वं १, यद्येन सदैव अभ्यस्तं कर्म स तत् प्रकर्षप्राप्तं करोति, न अत्र विस्मयः, ततः स तस्कर एतत् वाक्यं अमर्पवैश्वानरसंधुक्षणसमं आकर्ण्य जज्वाल कोपेन, ततः पृष्टवान् कमपि पुरुषं-कोऽयं कस्य वा सत्क इति ?, ज्ञात्वा च तं अन्यदा क्षुरिकां आकृष्य गतः क्षेत्रे तस्य पार्थे, रे! | मारयामि त्वां संप्रति, तेन उक्तं-किं इति ?, सोब्रवीत्-त्वया तदानीं न मम खातं प्रशंसितं इति कृत्वा, सोऽब्रवीत्-सत्यं एतत् , | यो यस्मिन् कर्मणि सदैव अभ्यासपरः स तत् विषये प्रकर्षवान् भवति, तत्र अहमेव दृष्टान्तः, तथाहि अमून मुद्गान् हस्तगतान् यदि
॥१२३॥
56
Jain Education
a
l
For Private & Personel Use Only
(Coldjainelibrary.org