________________
नन्दिसूत्रम्
अवचूरि
समलंकृतम्
॥१२२॥
चाकृतपुण्योचिंतयद्यथा नास्मात् आपत्समुद्रात् मे निस्तारोऽस्तीति वृक्षे गलपाशेनात्मानं बद्धा म्रियेयेति तेन तथैव कर्तुमारब्धं, परं जीर्णदंडिवस्त्रखंडेन गले पाशो बद्धः, तच्च दंडिवस्त्रखंडं अतिदुर्बलमिति त्रुटितं, ततः स वराकोऽधस्तात्सुप्तनटमहत्तरस्योपरि पपात, सोऽपि च नटमहत्तरः तद्भाराक्रांतगलप्रदेशः पंचत्वमगमत्, ततो नटैरपि स प्रतिगृहीतः, गताः प्रातः सर्वेऽपि राजकुले, कथितः सर्वैः अपि स्वस्खव्यतिकरः, ततः कुमारामात्येन स बराकः पृष्टः, सोऽपि दीनवदनोवादीव-देव! यत् एते ब्रुवते, तत् सर्व सत्यमिति ततस्तस्य उपरि संजाततकृपः कुमारामात्योऽवादी-एष बलीवौ तुभ्यं दास्यति, तव पुनः अक्षिणी उत्पाटयिष्यति, एष हि तदैवानृणो बभूव यदा त्वया चक्षुामवलोकितौ बलिवदौं, यदि पुनः त्वया चक्षुभ्यां नावलोकितौ स्यातां तदा एषोऽपि स्वगृहं न यायात्, नहि यो यस्मै यस्य समर्पणायागतः, स तस्यानिवेदने समर्पणीयं एवमेव मुक्त्वा स्वगृहं याति, तथा द्वितीयोऽश्वस्वामी शब्दितः, एषोऽश्वं तुभ्यं दास्यति, तव पुनः एष जिह्वां छेत्स्यति, यदा हि त्वदीय जिह्वया उक्तं-एनं अश्वं दंडेन ताडय इति, तदाऽनेन दंडेन आहतोऽश्वो, न अन्यदा, तत एप दंडेन आहता दंड्यते तव पुनः न जिह्वा इति कोऽयं नीतिपथः ?, तथा नटान् प्रत्याह-अस्य पार्श्व न किमपि अस्ति ततः किं दापयामः, एतावत् पुनः कारयामः-एषोऽधस्तात् स्थास्यति, त्वदीयः पुनः कोऽपि प्रधानो यथा एष वृक्षे गलपाशेन आत्मानं बद्धा मुक्तवान् तथात्मानं मुंचतु इति, ततः सर्वैः अपि स मुक्तः । कुमारामात्यस वैनयिकी बुद्धिः॥३॥ उक्ता वैनयिकी बुद्धिः॥८॥ कर्मजाया बुद्धेः लक्षणं आह
उवओगदिवसारा कम्मपसंगपरिघोलणविसाला ॥ साहुकारफलवई कम्मसमुत्था हवइ बुद्धि ॥८॥
॥१२२॥
Jain Education
For Private & Personel Use Only
jainelibrary.org