________________
नन्दिसूत्रम् ॥११४॥
Jain Education
तत एतावतं कालं यावत् अविशेषेण खादतां पिवतां इति, ततो न यस्याः पुत्रः साऽचिंतयत्- लब्धः तावत् एतावान् कालः पश्चात् किं अपि यद्भविष्यति तन्न जानीमः । ततो हृष्टवदनया प्रतिपन्नं, ततो देव्या जझे-न एषा पुत्रस्य माता इति निर्भत्सिता, द्वितीया च गृहस्वामिनी कृता देव्या औत्पत्तिकी बुद्धिः ॥ २५ ॥ ' इच्छाय महे' त्ति काचित् स्त्री, तस्या भर्त्ता पंचत्वमधिगतः, सा च वृद्धिप्रयुक्तं द्रव्यं लोकेभ्यो न लभते, ततः पतिमित्रं भणितवती - मम दापय लोकेभ्यो धनं इति, ततस्तेन उक्त-यदि मम भागं प्रयच्छसि, तयोक्तं- यदिच्छसि तत् मह्यं दद्यादिति, ततः तेन लोकेभ्यः सर्व द्रव्यं उग्राहितं, तस्यै स्तोकं प्रयच्छति । ततो जातो राजकुले व्यवहारः, कारणिकैः यदुद्राहितं द्रव्यं तत् सर्वं आनायितं, कृतौ द्वौ भागौ, एको महान् द्वितीयोऽल्प इति । ततः पृष्टः कारणिकैः स पुरुषः- किं भागं त्वं इच्छसि ?, स प्राह- महांतं इति, ततः कारणिकैः अक्षरार्थो विचारितो यदिच्छसि तत् मह्यं दद्यादिति त्वं च इच्छसि महांतं भागं ततो महान् भाग एतस्याः, द्वितीयस्तु तव इति । कारणिकानां औत्पत्तिकी बुद्धिः ॥ २६ ॥ 'सयसहस्से 'ति कोsपि परिव्राजकः, तस्य रूप्यमयं महाप्रमाणं भाजनं खोरयसंज्ञं, स च यत् एकवारं शृणोति तत्सर्वं तथैव अवधारयति । स निजप्रज्ञागर्व उद्वहन् सर्वसमक्षं प्रतिज्ञां कृतवान्- यो नाम मां अपूर्वं श्रावयति तस्मै ददामि इदं निजभाजनं इति, न च कोऽपि अपूर्व श्रावयितुं शो, स हि यत् किं अपि शृणोति तत्सर्वं अस्खलितं तथैव अनुवदति वदति च अग्रेऽपि इदं मया श्रुतं कथमन्यथाऽहमस्खलितं भणामि इति । एतत्सर्वत्र ख्यातिं अगमत्ततः केनापि सिद्धपुत्रकेण ज्ञाततत्प्रतिज्ञेन तं प्रति उक्तं - अहमपूर्वं श्रावयिष्यामि ततो मिलितो भूयान् लोको राजसमक्षं व्यवहारो बभूव, ततः सिद्धपुत्रोऽपाठीत् । "तुज्झ पिया मह पिउणो धारेह अणूणगं सयसहस्सं । जइ सुयपुव्वं | दिजउ अह न सुयं खोर देसु ॥ १ ॥ " जितः परिव्राजकः । सिद्धपुत्रस्य औत्पत्तिकी बुद्धिः || २७ ॥ तदेवं उक्ता बुद्धिः औत्पत्तिकी ॥
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥११४॥
jainelibrary.org