________________
नन्दिसूत्रम् ॥११५॥
Jain Education
सम्प्रति वैनयिक्या लक्षणं प्रतिपादयति
भरनित्थरणसमत्था तिवग्गमुत्तत्थगहिअपेआला ॥ उभओ लोगफलवई विणयसमुत्था हवइ बुद्धी ॥ ६ ॥ निमित्ते' अत्थसत्थे ये लेहे गणिए में कूर्व अस्से र्यं ॥ गद्दर्भे लक्खर्ण गंठी' अग रहिए ये गणिया में ॥ ७ ॥ सीओ साठी दीहं च तणं अवसव्वयं च कुंचस्स ॥ निव्वोदए अ गोणे घोडगपडणं च रुक्खाओ ॥ ८ ॥
भर इत्यादि, इहातिगुरु कार्य दुर्निर्वहत्वात् भर इव भरः तत् विस्तरणे समर्धा भरनिस्तरणसमर्थाः त्रयो वर्गाः त्रिवर्गाः लोकरूढ्या धर्म्मार्थकामाः तत् अर्जनोपायप्रतिपादकं यत्सूत्रं यश्च तत् अर्थः तौ त्रिवर्गसूत्रार्थी तयोः गृहीतं 'पेयालं' प्रमाणं सारो वा यया सा तथाविधा, अत्राह - ननु अश्रुतनिश्रिता बुद्धयो वक्तुं अभिनेताः, ततो यदि अस्याः त्रिवर्गसूत्रार्थगृहीतसारत्वं ततोऽश्रुतनिश्रितत्वं न उपपद्यते, न हि श्रुताभ्यासमंतरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं संभवति, अत्र उच्यते; इह प्रायो वृत्तिं आश्रित्य अश्रुतनिश्रितत्वं उक्तं, ततः खल्पश्रुतभावेऽपि न कश्चित् दोषः । तथा उभयलोकफलवतीं ऐहिके आमुष्मिके च लोके फलदायिनी विनयसमुत्था भवति बुद्धिः ॥ १ ॥ संप्रति अस्या एव विनेयजनानुग्रहार्थं उदाहरणैः स्वरूपं दर्शयति- 'निमित्ते' गाहा, 'सीया' गाहा, गाथाद्वयार्थः कथानकेभ्योऽवसेयः, तानि च ग्रंथगौरवभयात् संक्षेपेण उच्यते तत्र 'निमित्ते इति, क्वचित् पुरे कोऽपि सिद्धपुत्रकः, तस्य द्वौ शिष्यौ निमित्तशास्त्रं अधीतवंतौ, एको
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥११५॥
ainelibrary.org