________________
नन्दिसूत्रम् ॥१०४॥
कारणिकैः द्वयोरपि पृथक् २ कृत्य ह्यस्तनदिनयुक्त आहारः पृष्टो, धिग्जातीयेन उक्तं मया ह्यस्तनदिने तिलमोदका भक्षिता मद्भार्यया च, धूर्त्तेन अन्यकि अपि उक्तं, ततो दत्तं तस्याः कारणिकैः विरेकौषधं, जातो विरेको, दृष्टाः पुरीषांतर्गताः तिलाः, दत्ता सा विजातीयाय, निर्घाटितो धूर्त्तः, कारणिकानां औत्पत्तिकी बुद्धिः ॥ ८ ॥ 'गय'त्ति गजोदाहरणं, तद्भावना - वसंतपुरे नगरे कोऽपि राजा बुद्ध्यतिशयसंपन्नं मंत्रिणमेकमन्वेषमाणञ्चतुःपथे हस्तिनमालानस्तंभे बंधयित्वा घोषणामचीकरत् । यो इमं हस्तिनं तोलयति तस्मै राजा महतीं वृत्तिं प्रयच्छति इति । इमां च घोषणां श्रुत्वा कश्चिदेकः पुमान् हस्तिनं महासरसि नावं आरोहयामास । अस्मिंश्च आरूढे यावत् प्रमाणा नौः मले निमग्ना तावत् प्रमाणां रेखामदात्ततः समुत्तारितो हस्ती तटे, प्रक्षिप्ता गंडशैलकल्पा नाविग्रावाणः, च तावत् प्रक्षिप्ता यावद् रेखां मर्यादीकृत्य जले निमग्ना नौः, ततः तोलिताः सर्वे पाषाणाः, कृतं एकत्र पलप्रमाणं निवेदितं च राज्ञोदेव! एतावत् पलपरिमाणो हस्ती वर्त्तते । ततस्तुतोष राजा, कृतो मंत्रिमंडलमूर्द्धाभिषिक्तः परममंत्री, तस्य औत्पत्तिकी बुद्धिः ॥ ९ ॥ 'घयण'त्ति भांडः, तत् उदाहरणं-विटो नाम कोऽपि पुरुषो राज्ञः प्रत्यासन्नवर्त्ती, तं प्रति राजा निजदेवीं प्रशंसतिअहो निरामया मे देवी या न कदाचित् अपि वातनिसर्ग विदधाति । विटः प्राह - देव ! न भवति इदं जातुचित्, राजावादीत्कथं १, विट आह-देव ! धूर्त्ता देवी, ततो यदा सुगंधीनि पुष्पाणि चूर्णयित्वा वासात् समर्पयति नासिकाग्रे तदा ज्ञातव्यं - वातं मुंचति इति । ततोऽन्यदा राज्ञा तथैव परिभावितं । सम्यग् अवगते च हसितं, ततो देवीहसननिमित्तकथनाय निर्बंधं कृतवती, ततो राजाऽतिनिर्बंधे कृते पूर्ववृत्तांतं अचीकथत् । ततचुकोप देवी तस्मै विटाय, आज्ञप्तो देशत्यागेन, तेनापि जज्ञे - नूनं अकथयत् पूर्ववृत्तांतं देवो देव्यास्तेन मे चुकोप देवी । ततो महांतं उपानहां भरमादाय गतो देवीसकाशं, विज्ञापयामास
Jain Education Intemational
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥१०४॥
www.jainelibrary.org