SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ | अवचूरि नन्दिसूत्रम् ॥१०॥ समलंकृतम् ततो वेद्यो विरेकोषधं तस्य प्रदाय लाक्षारसखरंटितं सरटं घटे प्रक्षिप्य तस्मिन् घटे पुरीपोत्सर्ग कारितवान् । ततो दर्शितो द वैद्येन तस्य पुरीषखरंटितो घटे सरटो, व्यपगता तस्य शंका, जातो बलिष्ठशरीरो, वैद्यस्य औत्पत्तिकी बुद्धिः॥६॥ 'काय'ति | काकोदाहरणं, तत् भावना-वेन्नातटे नगरे केनापि सौगतेन कोऽपि श्वेतपटक्षुल्लकः पृष्टः-भो क्षुल्लक ! सर्वज्ञाः किल तव अहंतः तत्पुत्रकाच यूयं तत्कथय-कियंतोत्र पुरे चसंति वायसाः ?, ततः क्षुल्लकः चिंतयामास-शठोऽयं प्रतिशठाचरणेन निर्लोठनीयस्ततः स्वबुद्धिवशात् इदं पठितवान्-“सद्विकागसहस्सा इहई विनायडे परि वसंति । जइ ऊणगा पवसिया अब्भहिया पाहुणा आया ॥१॥" ततः स भिक्षुः ततः प्रत्युत्तरं दातुं अशक्नुवन् लकुटाहतशिरस्क इव शिरः कंड्यन् मौनमाधाय गतः । क्षुल्लकस्य औत्पत्तिकी बुद्धिः । अथवाऽपरो वायसदृष्टांतः कोऽपि क्षुल्लका केनापि भागवतेन दुष्टबुद्ध्या पृष्टो-भोः क्षुल्लक ! किं एष काको विष्ठां इतः ततो विक्षिपति?, क्षुल्लकोऽपि तस्य दुष्टबुद्धितां अवगम्य तत् मर्मवित् प्रत्युत्तरं दत्तवान्-युष्मसिद्धांते हि जले च स्थले च सर्वत्र व्यापी विष्णुः अभ्युपगम्यते । ततो यौष्माकीणं सिद्धांत उपश्रुत्य एषोऽपि वायसोऽचिंतयत्-किं अस्मिन् पुरीषे समस्ति विष्णुः किं वा न इति?, ततः स एवं उक्तो बाणाहतमर्मप्रदेश इव चूर्णितचेतसो मौनं अवलंब्य रुषा धूमायमानो गतः, क्षुल्लकस्य औत्पत्तिकी बुद्धिः ॥७॥ 'उच्चारे' ति, उच्चारोदाहरणं, तत् भावना क्वचित् पुरे कोऽपि धिग्जातीयः, तस्य भार्याऽभिनवयोवनोद्भेदरमणीया लोचनयुगलवक्रिमावलोकनमहाभल्लीनिपातताडितसकलकामिकुरंगहृदया प्रबलकामोन्मत्तमानसा, त सोऽन्यदा धिग्जातीयः तया भार्यया सह देशांतरं गंतुं प्रवृत्तोपांतराले च धृतः कोऽपि पथिको मिलितः, सा च धिग्जातीयभार्या तस्मिन् रतिं बद्धवती, ततो धूर्तः प्राह-मदीया एषा भार्या, धिग्जातीयः प्राह-मदीया इति, ततो राजकुले व्यवहारो जातः, ततः ॥१०३॥ Jain Education a l For Private & Personel Use Only MOMainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy