________________
नन्दिसूत्रम् ॥१०२॥
अवचूरिसमलंकृतम्
अंगुल्याभरणं, पृष्टश्च राज्ञा-वत्स! कोऽसि त्वं?, अभयकुमारेण उक्तं देव ! युष्मदपत्यं, राजा पाह-कथं ?, ततः प्राक्तनं वृत्तांत कथितवान् । ततो जगाम महाप्रमोदं राजा, चकार उत्संगे अभयकुमारं, चुंबितवान् सस्नेहं शिरसि, पृष्टश्च श्रेणिकेन अभयकुमारोवत्स! व ते माता वर्त्तते । तेन उक्तं-देव! बहिःप्रदेशे, ततो राजा सपरिच्छदः तस्याः सन्मुखं उपागमत् । अभयकुमारश्च अग्रे समागम्य कथयामास सर्व नंदायास्ततः सा आत्मानं मंडयितुं प्रवृत्ता, निषिद्धा च अभयकुमारेण मातः! न कल्पते कुलस्त्रीणां निजपतिविरहितानां निजपतिदर्शनमंतरेण भूषणं कर्तुं इति, समागतो राजा, पपात राज्ञः पादयोः नंदा, सन्मानिता च भूषणादिप्रदानेन अतीव राज्ञा, सस्नेहं प्रवेशिता महाविभूत्या नगरं सपुत्रा, स्थापितश्च अभयकुमारोमात्यपदे अभयकुमारस्य
औत्पत्तिकी बुद्धिः ॥४॥ तथा 'पड'त्ति पटोदाहरणं, तद्भावना-द्वौ पुरुषौ एकस्य आच्छादनपटः सौत्रिकोऽपरस्य और्णमयः, तौ | च सह गत्वा युगपत्स्नातुं प्रवृत्तौ, तत्र उर्णापटस्वामी स्वपटं विमुच्य द्वितीयस्य सत्कं सौत्रिकं पटं गृहीत्वा गंतुं प्रस्थितो, द्वितीयो याचते स्वफ्टं, स न प्रयच्छति, ततो राजकुले व्यवहारो जातः, ततः कारणिकः द्वयोः अपि शिरसी कंकतिकयाञ्चलेखिते, ततोऽवलेखने कृते ऊर्णामयपटस्वामिनः शिरसा और्णावयवा निर्जग्मुः । ततो ज्ञातं-नूनं एप न सौत्रिकपटस्य खामीति निगृहीतो ऽपरस्य समर्पितः सौत्रिकः पटः। कारणिकानां औत्पत्तिकी बुद्धिः॥५॥ ततो 'सरड' त्ति, सरटोदाहरणं, तद्भावना-कस्यचित पुरीपं उत्सृजतः सरटो गुदस्याधस्तात् विलं प्रविशन् पुच्छेन गुदं स्पृष्टवान् । ततस्तस्य एवं अजायत शंका-नूनं उदरे मे सरटः प्रविष्टः, ततो गृहं गतो महती महतीं अधृति कुर्वन् अतीव दुर्बलो बभूव । वैद्यं च पप्रच्छ, वैद्यश्च ज्ञातवान् , असंभवं एतत्, केवलं अस्य कथंचित् आशंका समुदपादि, ततः स अवादीत्-यदि मे शतं रूपकाणां प्रयच्छसि ततोऽहं त्वां निराकुलीकरोमि, तेन प्रतिपन्न,
॥१०२॥
24
Jain Education
22 ainelibrary.org
For Private 8 Personal Use Only
Bonal