SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ | अवचूरिसमलंकृतम् नन्दिसूत्रम् प्रसवसमये प्रातरादित्य बिंब इव दश दिशः प्रकाशयन् अजायत परमसूनुस्तस्य च दौहृदानुसारेण अभय इति नाम चक्रेते सोऽपि च अभयकुमारो नंदनवनांतर्गतकल्पपादप इव तत्र सुखेन परिवर्द्धते । शास्त्रग्रहणादिकं अपि यथाकाले कृतवान् । ॥१.१॥ | अन्यदा च स्वमातरं प्रपच्छ । मातः! कथं मे पिताऽभूत् इति?, ततः सा कथयामास समूलत आरभ्य सर्व यथावस्थित वृत्तांत, दर्शयामास च लिखितानि अक्षराणि, ततो मातृवचनतात्पर्यावगमतो लिखिताक्षरार्थावगमतश्च ज्ञातं अभयकुमारेण यथा मे पिता राजगृहे राजा वर्त्तते इति । एवं च ज्ञात्वा मातरं अभाणीत्-व्रजामो राजगृहे सार्थेन सह वयं इति, कसा प्रत्यवादीत्-वत्स ! यद् भणसि तत्करोमि इति । ततो अभयकुमारः स्वमात्रा सह सार्थेन समं ब्रजितः, प्राप्त राजगृहस्य बहिःप्रदेश, ततोऽभयकुमारः तत्र मातरं विमुच्य किं वर्त्तते संप्रति पुरे? कथं वा राजा दर्शनीय ? इति विचिंत्य राजगृह पुरं प्रविष्टः। तत्र च पुरप्रवेशे एव निर्जलकूपतटे समंततो लोकः समुदायेन अवतिष्ठते । पृष्टं च अभयकुमारेण-किं इति एष लोकमेलापकः, ततो लोकेन उक्तं,-कूपस्य मध्ये राज्ञोंगुल्याभरणमास्ते, तत् यो नाम तटे स्थितः स्वहस्तेन गृह्णाति तस्मै राजा महतीं वृत्रिं प्रयच्छति इति, तत एवं श्रुते पृष्टाः प्रत्यासन्नवर्त्तिनो राजनियुक्ताः पुरुषास्तैः अपि एवं एव कथितम् । ततः अभयकुमारेण उक्तं-अहं तटे स्थितो ग्रहीष्यामि, राजनियुक्तैः पुरुषैः उक्तं-गृहाण त्वं, यत् प्रतिज्ञातं राज्ञा तदवश्यं करिष्यते । ततोऽभयकुमारेण परिभावितं अंगुल्याभरणं दृष्ट्वा सम्यक् तत आगोमयेन आहतं, संलग्नं तत् तत्र, तस्मिन् शुष्क मुक्तं कूपांतरात् पानीयं, भृतो जलेन, परिपूर्णः स कूपः, तरति च उपरि सांगुल्याभरणशुष्कगोमयस्ततस्तटस्थेन सता गृहीतं अंगुल्याभरणं अभयकुमारेण, कृतश्च आनंदकोलाहलो लोकेन, निवेदितं राज्ञो राजनियुक्तैः पुरुषैः, आकारितोऽभयकुमारो राज्ञा, गतो राज्ञः समीपं, मुमोच पुरतः ॥१०॥ Jain Educati o nal For Private & Personel Use Only Ysjainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy