________________
नन्दिसूत्रम्
॥१००॥
Jain Education
देशांतरं जगाम । क्रमेण बेनातटं नगरं तत्र च क्षीणविभवस्य श्रेष्ठिनो विपणौ समुपविष्टः तेन च श्रेष्ठिना तस्यां एव रात्रौ स्वमे रत्नाकरो निजदुहितरं परिणयन् दृष्ट आसीत् । तस्य च श्रेणिकपुण्यप्रभावतः तस्मिन् दिवसे चिरसंचितप्रभूतऋयाणकविक्रयेण महान् लाभः समुदपादि । म्लेच्छहस्ताच्च अनर्धाणि महारत्नानि स्वल्पमूल्येन समपद्यन्त ततः सोऽचिंतयत्- अस्य महात्मनो मम समीपं उपविष्टस्य पुण्यप्रभाव एष यत् मया महती विभूतिः एतावती समासादिता, आकृतिं च तस्यातीव सुमनोहरां अवलोक्य स्वचेतसि कल्पयामास स एष रत्नाकरो यो मया रात्रौ खमे दष्टः, ततस्तेन कृतकरांजलिपुटेन विनयपुरस्सरं आभाषितः श्रेणिकः कस्य यूयं प्राघूर्णकाः १, श्रेणिक उवाच - भवतां इति, ततः स एवंभूतवचनश्रवणतो धाराहतकदंबपुष्पमिव पुलकितसमस्ततनुयष्टिः सबहुमानं स्वगृहं नीतवान् श्रेणिकं, भोजनादिकं च सकलमपि आत्मनोऽधिकतरं संपादयामास । पुण्यप्रभावं च तस्य प्रतिदिवस आत्मनो धनलाभवृद्धिसंभवेनासाधारणं अभिसमीक्ष्यमाणः कतिपयदिनातिक्रमे तस्मै स्वदुहितरं नंदानामानं दत्तवान् । श्रेणिकोऽपि तया सह पुरंदर इव पौलोम्या मन्मथमनोरथानापूरयन् पंचविधभोगलालसो बभूव । कतिपयवासरातिक्रमे च नंदाया गर्भाधानमभूत् । इत प्रसेनजित् स्वांतसमयं विभाव्य श्रेणिकस्य परंपरया वार्त्ता अधिगम्य तदाकारणाय सत्वरं उष्ट्रवाहनान् पुरुषान् प्रेषयामास । ते च समागत्य श्रेणिकं विज्ञप्तवंतो- देव ! शीघ्रं आगम्यतां देवः सत्वरं आकारयति । ततो नंदां आपनसत्त्वां आपृच्छ्य 'अम्हे रायगिहे पंडरकुद्दा गोयाला जइ अम्हेहिं कजं तो एज्झह' त्ति एतद्वाक्यं क्वचित् लिखित्वा श्रेणिको राजगृहं प्रति चलितवान् । नंदायाश्च देवलोकच्युत महानुभाव गर्भसत्त्वप्रभावत एवं दौहृदं उदपदि । यदहं प्रबरकुंजरमधिरूढा निखिलजनेभ्यो धनदानपुरस्सरं अभयप्रदानं करोमि इति । पिता च तत् इत्थंभूतं दौहदं उत्पन्नं ज्ञात्वा राजानं विज्ञप्य पूरितवान् । कालक्रमेण च प्रवृत्ते
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥१००॥
jainelibrary.org