________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
॥९७॥
पुनरपि रोहकः सुष्वाप, तृतीये च रजन्या यामेऽपगते भूयो राज्ञा शब्दितः,-कि रे जागर्षि किंवा स्वपिषि ?, सोऽवादीव-देव! जागर्मि, किं रे चिंतयन् वर्तसे?, देव ! पाडहिला जीवस्य यावत् मात्रं शरीरं तावत् मात्रं पुच्छं उत न्यूनाधिकमिति ?, तत एवं उक्ते राजा निर्णयं कर्तुं अशक्तः तं एवापृच्छत्-कोन निर्णयः १, सोवादीव-देव! समं इति ॥ १२ ॥ ततो रोहकः सुप्तः, प्राभातिके च | मंगलपटहकनिखने सर्वत्र प्रसरमधिरोहति राजा प्रबोधं उपाजगाम, शब्दितवान् च रोहकं, स च निद्राभरं उपारूढो न प्रतिवाचं दत्तवान् । ततो राजा लीलाकम्बिकया मनाक् तं स्पृष्टवान् , ततः सोऽपगतनिद्रो जातः, पृष्टश्च किं रे स्वपिषि? स प्राह-देव! जागर्मि, किं रे तर्हि कुर्वन् तिष्ठसि ? देव चितयन् , किं चिंतयसि ? देव ? एतत् चिंतयामि कतिभिर्जातो देव इति, तत एवमुक्ते राजा सवीडं मनाक् तूष्णी अतिष्ठत्, ततः क्षणानन्तरं पृष्टवान् कथय रे कतिमिः अहं जातः? इति ?, स प्राह-देव? पंचभिः, राजा भूयोऽपि पृष्टवान्-केन केन इति ?, रोहक आह-देव एकेन तायत् [वैश्रवणेन], वैश्रवणस्य इव भवतो दानशक्तेः दर्शनात् , द्वितीयेन चंडालेन, वैरिसमूहं प्रति चंडालस्य इव कोपदर्शनात् , तृतीयेन, रजकेन, यतो रजक इव वस्त्रं परं निःपीड्य तस्य सर्व अपहरन् दृश्यसे, चतुर्थेन वृश्चिकेन, यत् मां अपि बालकं निद्राभरसुप्तं लीलाकविकाग्रेण वृश्चिक इव निर्दयं तुदसि, पंचमेन निजपित्रा, येन यथावस्थितं न्यायं सम्यग् परिपालयसि । एवमुक्ते राजा तूष्णीं आस्थाय प्राभातिकं कृत्यं अकार्षीत् । जननी च नमस्कृत्य एकांते पृष्टवान् कथय मातः! कतिभिः अहं जात इति ?, सा प्राह-वत्स! किं एतत् प्रष्टव्यं ?, निजपित्रा त्वं जातः, ततो राजा रोहकोक्तं कथितवान् , वदति च-मातः ! स रोहकः प्रायोज्लीकबुद्धिर्न भवति ततः कथय सम्यक् तत्त्वमिति, तत एवं अतिनिबंधे कृते सति सा कथयामासयदा तव गर्भाधानं आसीत् तदाऽहं बहिरुद्याने वैश्रवणपूजनाय गतवती, वैश्रवणं च यक्षं अतिशायिरूपं दृष्ट्वा हस्तसंस्पर्शेन च
॥
९
॥
Jain Educat
i
onal
For Private Personel Use Only
w.jainelibrary.org