SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ . नन्दिसूत्रम् | अवचूरि समलंकृतम् ॥९८॥ संजातमन्मथोन्मादा भोगाय तं स्पृहितवती, अपांतराले च समागच्छंती चंडालयुवानं एक अतिरूपं अपश्यम्, ततस्तमपि भोगाय स्पृहयामि स्म, ततोक्तिने भागे समागच्छंती तथैव [च] रजकं दृष्ट्वाभिलपितवती, ततो गृहमागता सती तथाविध उत्सववशात् वृश्चिकं कणिकामयं भक्षणाय हस्ते न्यस्तवती, ततः तत्संस्पर्शतो जातकामोद्रेकात् तमपि भोगायाशंसितवती, तत एवं यदि स्पृहामात्रेण तेऽपि पितरः संभवंति तन्न जाने, परमार्थतः पुनरेक एव ते पिता सकलजगत्प्रसिद्ध इति, तत एवमुक्ते राजा जननीं प्रणम्य रोहकबुद्धिविस्मितचेताः स्वावासप्रासादं अगमत् । रोहकं च सर्वेषां मंत्रिणां मूर्धाभिषिक्तं मंत्रिणं अकार्षीत् । तत् एवं 'भरहसिल' इति व्याख्यातम् ॥ १३ ॥३। संप्रति 'पणियंति व्याख्यायते-दौ पुरुषौ, एको ग्रामेयकोऽपरो नागरिकः, तत्र ग्रामेयकः स्वग्रामात् चिर्भटिकां आनयन् प्रतोलीद्वारे वर्तते । तं प्रति नागरिकः प्राह-यद्येताः सर्वा अपि तव चिर्भटिका भक्षयामि ततः किं मे प्रयच्छसि इति ?, ग्रामेयक आहयोऽनेन प्रतोल्याद्वारेण मोदको न याति तं प्रयच्छामि, ततो बद्धं द्वाभ्यां अपि पणितं, कृताः साक्षिणो जनाः, ततो नागरिकेण ताः सर्वा अपि चिर्भटिका मनाक् मनाक् भक्षयित्वा मुक्ताः, उक्तं च ग्रामेयकं प्रति-भक्षिताः सर्वा अपि त्वदीयाः चिर्भटिकाः, ततो मे प्रयच्छ यथा प्रतिज्ञातं मोदकं इति, ग्रामेयक आह-न मे चिर्भटिका भक्षितास्ततः कथं ते प्रयच्छामि मोदकं, नागरिकः प्राह-भक्षिता मया सर्वा अपि तव चिर्भटिकाः, यदि न प्रत्येषि तर्हि प्रत्ययं उत्पादयामि, तेन उक्तं-उत्पादय प्रत्ययं, ततो द्वाभ्यां अपि विपणि- वीथ्यां विस्तारिता विक्रयाय चिटिकाः, समागतो लोकः क्रयाय, ताश्च चिर्भटिका निरीक्ष्य लोको वक्ति-ननु भक्षिताः त्वदीयाः सर्वा अपि चिर्भटिकाः तत् कथं वयं गृह्णामः?, एवं च लोकेनोक्ते साक्षिणां ग्रामेयकस्य च प्रतीतिरुदपादि, क्षुमितो ग्रामेयका, हा! SANSAR ॥९८॥ Hainelibrary.org For Private Personal Use Only Jain Education
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy