SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ नन्दम् ॥ ७० ॥ Jain Education व्युत्क्रांतिः उत्पत्तिर्येषां ते गर्भव्युत्क्रांतिकाः, अथवा गर्भात् व्युत्क्रांतिः व्युत्क्रमणं निष्क्रमणं येषां ते गर्भव्युत्क्रांतिकाः, उभयत्राऽपि गर्भजा इत्यर्थः, भगवानाह - गोमा ! नो संमुच्छिममणुस्साणं उप्पज्जइ गन्भवक्कंतियमणुस्साणं, जह गन्भवकंतियमणुस्साणं किं कम्मभूमियगन्भवकंतियमणुस्साणं अकम्मभूमियगन्भवक्कं तियमणुस्साणं अंतरदीवगगन्भवतियमणुस्साणं ? गोयमा ! कम्मभूमियगन्भवक्कंतियमणुस्साणं नो अकम्मभूमियगन्भवक्कंतियमणुस्साणं नो अंतरदीवगगन्भवक्कतियमणुस्साणं, जइकम्मभूमियगन्भवक्कंतियमणुस्साणं किं संखिज्जवासाउयकम्मभूमियगन्भवक्कतियमणुस्साणं असंखिज्जवासाउयकम्मभूमियगन्भवकंतियमणुस्साणं ? नो संमूर्च्छिममनुष्याणां उत्पद्यते, तेषां विशिष्टंचारित्रप्रतिपत्यसंभवात्, किंतु गर्भव्युत्क्रांतिकमनुष्याणां, एवं सर्वेषामपि प्रश्ननिर्वचनसूत्राणां भावार्थः भावनीयः, नवरं कृषिवाणिज्यतपः संयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभूमयः, भरतपंच कैरवत पंचकमहाविदेहपंचकलक्षणः पंचदश, तासु जाताः कर्मभूमिजाः कृष्यादिकर्मरहिताः कल्पपादपफलोपभोग प्रधाना भूमयो हैमवतपंचकहरिवर्षपंचकदेवकुरुपंचकोत्तरकुरुपंचकरम्यकपंचकैरण्यवतपश्ञ्चकरूपास्त्रिंशदकर्मभूमयः, तासु जाता अकर्मभूमिजाः, तथाऽन्तरे लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपा : - एकोरुकादयः षट्पञ्चाशत्, तेषु जाता अन्तरद्वीपजाः, एतेषु च वर्तमाना मनुष्या अप्येवं नामानो भवति, भवति च निवासयोगतस्तथाव्यपदेशो यथा पंचालजनपद निवासिनः पुरुषाः पंचाला इति, १- अत्र चारित्रप्रतिपत्त्यसंभवादित्येतन्मात्रेणैव संमूच्छिममनुष्याणां व्यवच्छेदसंभवे विशिष्टेति पदाऽऽदाने किमस्ति प्रयोजनम् ? गृहाण लाघवमेव प्रयोजनमिति, सर्वत्र हि अनेनैवैकेन हेतुनर्द्धिप्राप्ताप्रमत्तसंयतभिन्नानां व्यावृत्तिः । For Private & Personal Use Only अवचूरिसमलंकृतम् ।। ७० ।। jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy