SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ मन्दिसूत्रम् ॥ ६८ ॥ Jain Education Intern अवधिर्भवप्रत्ययतः गुणप्रत्ययतश्च ' वर्णितो ' व्याख्यातः, ' पाठांतरं वण्णिओ दुविहो' चि वर्णितो द्विप्रकारः, तस्य च भवगुणप्रत्ययतो द्विविधस्य अपि बहवो विकल्पा- भेदाः, तद्यथा-द्रव्ये द्रव्यविषयाः कस्यापि कियत् द्रव्यं विषय इति द्रव्यमेदाद्भेद:, तथा क्षेत्रे - क्षेत्रविषया अंगुल असंख्येय भागादिक्षेत्र मेदात् [भेदः] | काले कालविषया आवलिका संख्येयभागादि कालभेदात् [मेदः] च शब्दात् भावविषयाश्च कस्यापि कियंतः पर्याया विषय इति भावमेदाद्भेदः । तत्र जघन्यपदे प्रतिद्रव्यं चत्वारो वर्णगंधरसस्पर्श लक्षणाः पर्यायाः । ' दो पञ्जवे दुगुणिए सव्वजहत्रेण पेच्छए तेउ । चन्नाईया चउरो ' इति वचनप्रामाण्यात् । मध्यमतः अनेकसंख्य मेदभिन्ना । उत्कर्षतः प्रतिद्रव्यं असंख्येयान् न तु कदाचनापि अनंतान् ॥ १ ॥ नैरयिकदेवतीर्थंकरा' अवधेः ' अवधिज्ञानस्याबाह्या एव भवंति । बाह्या न कदाचनापि भवंति इति भावः सर्वतोऽवभासक-अवधि उपलब्ध क्षेत्र मध्यवर्त्तिनः सदैव भवतीत्यर्थः । तथा पश्यन्ति ' सर्वत: ' सर्वासु दिक्षु विदिक्षु च खलु शब्दोsaधारणार्थः, सर्वासु एव दिविदिक्षु इति शेषाः तिर्यग्नरा देशेन एकदेशेन पश्यंति ॥ २ ॥ तदेतदवधिज्ञानम् ॥ अथ किं तन्मनःपर्यायज्ञानं १, से किं तं मणपज्जवनाणं ? मणपज्जवनाणं भंते किं मणुस्साणं उप्पज्जइ अमणुस्साणं उप्पज्जइ ? नर्थक्यमेवेति वाच्यम्, तथापि सर्वकालं तेषां नियतोऽवधिरित्यस्यार्थस्यालाभात् ततः सर्वकालं नियतावधिकत्व प्रख्यापनाय ' अवधेबाह्या भवन्ति ' इत्येतत्पदस्यावश्यकत्वात् न च तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यत इति वाच्यम्, छद्मस्थकालावच्छेदेनैव विवक्षितत्वादिति ज्ञेयमिति भावः । For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ ६८ ॥ iainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy