________________
RCH
न्दिसूत्रम्
|
अवरिसमलंकृतम्
CREACHUSAGAR
कालं जाणइ पासइ उक्कोसे णं असंखिजाओ उस्सप्पिणीओ अवसप्पिणीओ अईयमणागयं च कालं जाणइ पासइ । भावओ णं ओहिनाणी जहन्ने णं अणते भावे जाणइ पासइ । उक्कोसे णं वि अणंते भावे जाणइ पासइ सव्वभावाणमणतभागं भावे जाणइ पासह।
तदवधिज्ञानं ' समासतः' संक्षेपेण चतुर्विधं-चतुःप्रकारं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भाषतच, तत्र द्रव्यतः 'ण' मिति वाक्यालंकारे, अवधिज्ञानी जघन्येनापि-भावप्रधानोऽयं निर्देशः सर्वजघन्यतयापि अनंतानि रूपिद्रव्याणि जानाति, तानि च तैजसभाषाप्रायोग्यवर्गणापांतरालवर्तीनि द्रष्टव्यानि, उत्कर्षतः पुनः सर्वाणि रूपिद्रव्याणि बादरसूक्ष्मानि जानाति पश्यति । तत्र ज्ञानं विशेषग्रहणात्मक, दर्शनं सामान्यपरिच्छेदात्मकं, आह-आदौ दर्शनं ततो ज्ञानं इति च क्रमः, तत एनं क्रम परित्यज्य किमर्थं प्रथमं जानाति इत्युक्तं ? उच्यते । इह सर्वा लब्धयः साकारोपयोगोपयुक्तस्य उत्पद्यते, अवधिः अपि लन्धिः उपवर्ण्यते, ततः स प्रथमं उत्पद्यमानो ज्ञानरूप एव उत्पद्यते न दर्शनरूपः, ततः क्रमेणोपयोगप्रवृत्तेः ज्ञानोपयोगानंतरं दर्शनरूपोऽपि इति प्रथमतो ज्ञानं उक्तं पश्चात् दर्शनं, अथवा इह अध्ययने सम्यग्ज्ञानं प्ररूपयितुं उपक्रति, यतोऽनुयोगप्रारंभेऽवश्यं मंगलाय ज्ञानपंचकरूपो भावनंदिः वक्तव्य इति तत्प्ररूपणार्थ इदं अध्ययनं आरब्धं, ततः सम्यग्ज्ञानं इह प्रधानं, न मिथ्याज्ञानं, तस्य मांगल्यहेतुत्वायोगात् , दर्शनं तु अवधिज्ञानविमंगसाधारणं इति तत् अप्रधान, प्रधानानुयायी च लौकिक: लोकोत्तरश्च मार्गस्ततः प्रधानत्वात् प्रथमं ज्ञानमुक्तं पश्चाद्दर्शन मिति । तथा क्षेत्रतः अवधिज्ञानी जघन्येन अंगुलासंख्येयभाग उत्कर्षतः असंख्येयानि अलोके लोकप्रमाणानि चतुर्दशरज्वात्मकानि खंडानि जानाति पश्यति ।
SECSIS
IRC-25%
Jain Education in
For Private & Personal Use Only
Miww.jainelibrary.org