SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मन्दिसूत्रम् ॥ ६५ ॥ Jain Education Intern अथ किं तत् अप्रतिपातिअवधिज्ञानं १, से किं तं अपडिवाइ ओहिनाणं अपडिवाई ओहिनाणं जे णं अलोगस्स एगमवि आगासपएसं जाणइ पासह तेण परं अपडिवाइ ओहिनाणं से त्तं अपडियाह ओहिनाणं । सूरिराह- अप्रतिपाति अवधिज्ञानं येन अवधिज्ञानेन अलोकस्य संबंधिनं एकं अपि आकाशप्रदेश, आस्तां बहून् आकाशप्रदेशान् इत्यपिशब्दार्थः पश्येत्, एतच्च सामर्थ्य मात्रं उपवर्ण्यते, न तु अलोके किंचित् अपि अवधिज्ञानस्य द्रष्टव्यं अस्ति, एतच्च प्रागेव उक्तं । ततः आरभ्य अप्रतिपाति आ केवलप्राप्तेः अवधिज्ञानं, अयमत्र भावार्थ:- एतावति क्षयोपशमे संप्राप्ते सत्यात्मा विनिहतप्रधान प्रतिपक्षयोधसंघातनरपतिः इव न भूयः कर्म्मशत्रुणा परिभूयते । किंतु समासादितैतावत् आलोकजयोऽप्रतिनिवृत्तः शेषं अपि कर्म्मशत्रुसंघातं विनिर्जित्य प्राप्नोति केवलराज्यश्रियमिति । तदेतदप्रतिपाति अवधि - ज्ञानं । तदेवं षट् अपि अवधिज्ञानस्य भेदाः, संप्रति द्रव्याद्यपेक्षया अवधिज्ञानस्य मेदान् चिंतयति - तं समासओ चउव्विहं पन्नत्तं तं जहा दव्वओ । खित्तओ । कालओ । भावओ । तत्थ दव्वओ णं ओहिनाणी जहन्ने णं अनंताई रूविदव्वाई-जाणइ पासइ उक्कोसे णं सव्वाई रूविदव्वाई जाणइ पासइ वित्तओ णं ओहिनाणी जहन्ने णं अंगुलस्स असंखिज्जइ भागं जाणइ पासह उक्कोसे णं असंखिजाई अलोगे लोग पमाणमित्ताई खंडाई जाणइ पासह। कालओ णं ओहिनाणी जहन्ने णं आवलिआए असंखिज्जइ भागं For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ ६५ ॥ w.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy