SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ DESA मन्दिसूत्रम् अवनिसमलंकृतम् -OCTOGANAGARIKCAROGRA सर्वबहवोऽनलजीवा भवंति। तेषां स्वबुद्ध्या पोढाऽवस्थानं परिकल्प्यते-एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतः चतुरस्रोधन इति प्रथम, [स]एव घनो जीवैः स्वावगाहनाभिः इति द्वितीयं । एवं प्रतरोऽपि द्विमेदः, श्रेणिः अपि द्विधा, तत्र आद्याः पंचप्रकारा अनादेशाः, तेषु क्षेत्रस्य अल्पीयस्तया प्राप्यमाणत्वात् , षष्ठस्तु प्रकारः सूत्रादेशः, उक्तं च-" एकेक्कागासपएसजीवरयणाए सावगाहे य | चउरंसं घण पयरं सेढी छट्टो सुयादेसो"-ततश्च असौ श्रेणिः स्वावगाहनासंस्थापितसकलानलजीवावलीरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यतेन भ्राम्यते, सा च भ्राम्यमाणा असंख्येयान् लोकमात्रान् क्षेत्रविभागान् अलोके व्याप्नोति । एतावत् क्षेत्रं अवधेः उत्कृष्टं इति, इदं च सामर्थ्य मात्रं उपवर्ण्यते । एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति, यावता तत् न विद्यते, अलोके रूपिद्रव्याणां असंभवात् , रूपिद्रव्यविषयश्च अवधिः, केवलमयं विशेषो-बावदद्यापि परिपूर्ण अपि लोकं पश्यति तावदिह स्कंधान एवं पश्यति । यदा पुन: अलोके प्रसरमवधिः अधिरोहति तदा यथा यथा अभिवृद्धिं आसादयति तथा तथा लोके सूक्ष्मान् सूक्ष्मतरान् स्कंधान पश्यति, यावदंते परमाणु अपि । उक्तं च"सामस्थमेत्तमुत्तं दट्ठवं जइ हवेज पेच्छेजा । न उ तं तत्थरिथ जओ सो रूविनिबंधणो मणिओ ॥१॥ वढ्ढतो पुण बाहिं लोगत्थं चेव पासइ दवं । सुहुमयरं सुहुमयरं परमोही जाव परमाणू ॥२॥" परमावधिकलितश्च नियमात् अंतर्मुहूर्तमात्रेण केवलालोकलक्ष्मीमालिङ्गति, उक्तं च, 'परमोहिनाणठिओ केवलमंतोमुहुत्तमेत्तेणं' एवं तावत् जघन्यं उत्कृष्टं च अवधिक्षेत्रं उक्तम् , संप्रति मध्यमं प्रतिपिपादयिषुः एतावत् क्षेत्रोपलंमे एतावत् कालोपलंभः एतावत्कालोपलंमे च एतावत् क्षेत्रोपलंभ इत्यस्यार्थस्य प्रकटनार्थ गाथाचतुष्टयं आह ॥५८ ॥ IRECAॐ Jnin Education Inter For Private & Personal Use Only Nirjainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy