________________
मन्दिसूत्रम्
अवारि
४ समलंकृतम्
स्थान' ज्योतिःस्थानप्रकाशितं क्षेत्रं [जानाति] पश्यति, अन्यत्र गतो न पश्यति [न जानाति] एष दृष्टान्तः। उपनयं आह'एवमेव ' अनेनैव प्रकारेण अनानुगामिकं अवधिज्ञानं यत्र एवं क्षेत्रे व्यवस्थितस्य सतः समुत्पद्यते तत्र एवं व्यवस्थितः सन् संख्येयानि असंख्येयानि वा योजनानि स्वावगाढक्षेत्रेण सह संबद्धानि असंबद्धानि वा, अवधिः कोऽपि जायमानः स्वावगाढदेशात आरभ्य निरंतरं प्रकाशयति कोऽपि पुनः अपांतराले अंतरं कृत्वा परतः प्रकाशयति, ततः उच्यते-संबद्धानि असंबद्धानि वा इति. 'जानाति' विशेषाकारेण परिछिनत्ति 'पश्यति' सामान्याकारेण अवबुध्यते 'अन्यत्र च' देशांतरे गतो नैव पश्यति । अवधिज्ञानावरणक्षयोपशमस्य तत् क्षेत्रसापेक्षत्वात् । तदेवं उक्तं अनानुगामिकं ।
संप्रति वर्द्धमानकं अनवबुध्यमानः शिष्यः प्रश्नं करोति
से कि तं वडमाणयं ओहिनाणं वड्डमाणयं ओहिनाणं पसत्थेसु अज्झवसाणहाणेसु वट्टमाणस्स बड़. माणचरित्तम्स । विसुज्झमाणस्स विसुज्झमाणचरित्तस्स । सव्वओ समंता ओहिनाणं वडा ॥ सू० ॥१२॥
अथ किं तत् वर्द्धमानकं अवधिज्ञानं ?, सूरिराह-वर्द्धमानकं अवधिज्ञान प्रशस्तेषु अध्यवसायस्थानेषु वर्तमानस्य, इह सामान्यतो द्रव्यलेश्योपरंजितं चित्तं अध्यवसायस्थानं उच्यते, तच्चानवस्थितं, तल्लेश्याद्रव्यसाचिव्ये विशेषसंभवाद, ततो बहुवचनं उक्तं, प्रशस्तेषु इति, अनेन च अप्रशस्तकृष्णादिद्रव्यलेश्योपरंजितव्यवच्छेदं आह-प्रशस्तेषु अध्यवसायस्थानेषु वर्तमानस्य इति, किमुक्तं भवति ? प्रशस्ताध्यवसायस्थानकलितस्य, 'सर्वतः' समंतात् अवधिः परिवर्द्धते इति संबंधा, अनेन अविरतसम्यग्दृष्टेः अपि परिवर्द्धमानकोऽवधिर्भवतीत्याख्यायते ।, तथा 'वड्डमाणचरित्तस्स' प्रशस्तेषु अध्यवसाय
43955ACCUAS
॥५४॥
Jain Education Internet
For Private Personal Use Only
P
u
jainelibrary.org