SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥ ५५ ॥ Jain Education Intern स्थानेषु वर्धमानचारित्रस्य, एतेन देशविश्तसर्वविरतयोर्वर्द्धमान कमवधिमभिधत्ते वर्द्धमानकथावधिरुत्तरोचरं विशुद्धिमासादयतो भवति नान्यथा तत आह ' विशुद्धमानस्य' तदावरणकलंकविगमत उत्तरोत्तरविशुद्धिमासादयतः, अनेनाऽविरतसम्यग्दृष्टेर्वर्द्धमानकाऽवधेः शुद्धिजन्यत्वमाह, तथा 'विशुद्धमानचारित्रस्य ', इदं च विशेषणं देशविरत सर्वविरतयोवैदितव्यं । ' सर्वतः सर्वासु दिक्षु समंतादवधिः परिवर्द्धते । स कस्यापि सर्वजघन्यादारभ्य प्रवर्द्धते, ततः प्रथमतः सर्वजघन्यं अवधिं प्रतिपादयति । " , जावइआ तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहन्ना ओहीखित्तं जहन्नं तु ॥ १ ॥ ' जावइया ' इत्यादि, 'त्रि' - ' समयाहारकस्य ' आहारयति आहारं गृह्णाति इति आहारकः, त्रयः समयाः समाहृताः त्रिसमयं त्रिसमयं आहारकः त्रिसमयाहारकः, ' नाम नाम्ना एकार्थे समासो बहुलं ' [ सि. है. ३-१-१८] इतिसमासः तस्य ' त्रिसमयाहारकस्य ' सूक्ष्मस्य सूक्ष्मनामकर्मोदयवर्त्तिनः 'पनकजीवस्य पनकथासौ जीवच पनकजीवो, वनस्पतिविशेषः, तस्य 'यावती' यावत् परिमाणा, अवमाहंते क्षेत्रं यस्यां स्थिता जंतवः साऽवगाहना - तनु इत्यर्थः, ' जघन्या' त्रिसमयाहारकशेष सूक्ष्मपन कजीवापेक्षया सर्वस्तोका, एतावत्परिमाणं अवधेः जघन्यं क्षेत्रं, तुशब्द एवकारार्थः, स च अवधारणे, तस्य च एवंप्रयोगः - जघन्यं अवधिक्षेत्रं एतावद् एव इति । किं वा त्रिसमयाहारकत्वं परिगृह्यते १ १- आह- किमिति योजनसहलायामो मत्स्यः ? किं वा तस्य तृतीयसमये स्वदेहदेशे सूक्ष्मपनकत्वेनोत्पादः १ इत्यधिकं स्यादिति संभाव्यते मलयगिरिटीकायां दृश्यमानत्वादिति । For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ ५५॥ w.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy