SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ द्धते सति साऽविशोधिः सा चासौ कोटि:-भेदश्चेति समासः, उक्तं च-"इअ कम्मं उद्देसिअतिअमीसज्झोयरंतिमदुगं च। आहारपूइ बायरपाहुडि अविसोहिकोडित्ति ॥१॥” अस्याश्चावयवेन-शुष्कसिक्थादिना तथा तक्रादिना लेपेन वल्लादिनाऽलेपेन च संसृष्टं यच्छुद्धं भक्तं तस्मिन्नुज्झितेऽपि अकृतकल्पत्रये पात्रे शुद्धमपि भक्तं परिगृह्यमाणं न शुद्धं भवति, यतः-"तीइ जु पत्तंपिहु, करीसनिच्छोडिअंकयतिकप्पं । कप्पड़ जं तदवयवो, सहस्सघाई विसलवुव ॥१॥” इति । शेषास्तु विशोधिकोटिरूपाः, उक्तं च-"उद्देसिअंमि नवगं, उवगरणे जं च पूइ होइ । जावंतिअमीसगयं, अज्झोअरए अ पढमपयं ॥१॥ परिअहिए अभिहडे, उम्भि(मि)ने मालोहडे इअ । अच्छिज्जे अणिसिट्टे, पाओअरकीअपामिचे ॥२॥ सुहमा पाहुडिआवि अ, ठविअगपिंडो अ जो भवे दुविहो। सबोवि एस रासी, विसोहिकोडी मुणेअवो॥३॥" एषामविशुद्धकोट्यंशे उद्धृते शेषभक्तस्य शुद्धता भवति, यतः-"सेसा विसोहिकोडी, तदवयवं जं जहिं जहापडिअं। असढो पासइ तं चिअ, तओ तया उद्धरे । सम्मं ॥१॥” इति । अविशोधिकोट्यंशत्यजनं चासंस्तरणे, संस्तरणे तु शुद्धमशुद्धं च सर्वमपि त्यजन्ति, घृतादौ दुर्लभद्रव्ये तु अविशुद्धमात्रमेव त्यजन्ति न तु सर्वमिति विवेकः, तदुक्तं पिण्डनियुक्तौ-"तं चेव असंथरणे, संथरणे सवमवि विगिंचिंति । दुल्लहदवे असढा, तत्तिअमित्तं चिअ चयंति ॥१॥” इति । उत्पादना-18 |दोषा अपि षोडश, यथा-"धाई १ दूई २ निमित्ते ३, आजीव ४ वणीमगे ५ तिगिच्छा य ६। कोहे ७ माणे ८ माया ९, लोहे १० अ हवंति दस एए ॥१॥ पुदिपच्छा [व] संथव ११ विजा १२ मते अ १३ चुन्न १४ जोगे Jain Education Intel For Private & Personel Use Only Ohw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy