SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte उदितादरतो विवत्रे, ग्रन्थं च मानविजयाभिधवाचको मुम् ॥ क्षुण्णं यदत्र मतिमन्दतया भवेत्तन्मेधाविभिर्मयि | कृपां प्रणिधाय शोध्यम् ||९|| सतर्ककर्कशधियाऽखिलदर्शनेषु, मूर्धन्यतामधिगतास्तपगच्छधुर्याः । काश्यां विजित्य परयूधिकपर्षदोऽय्या, विस्तारितप्रवरजैनमतप्रभावाः॥ १७॥ तर्कप्रमाणनयमुख्यविवेचनेन, प्रोद्बोधितादिममुनिश्रुतकेवलित्वाः । चक्रुर्यशोविजयवाचकराजिमुख्या, ग्रन्थेऽत्र मय्युपकृतिं परिशोधनाद्यैः किल योजनाये ] ॥ ११॥ बाल इव मद्गतिरपि ( बालक इव मन्दगतिः) सामाचारीविचार दुर्गम्ये । अत्राभूवं गतिमांस्तेषां हस्तावलम्बेन । ॥ १२ ॥ [ सिद्धान्तव्याकरणच्छन्दः काव्यादिशास्त्रनिष्णातैः । लावण्यविजयवाचकशरैः समशोधि शास्त्रमिदम् ॥ १३ ॥ ] वर्षे पृथ्वीगुणमुनिचन्द्र [ १७३१ ] प्रमिते च माधवे मासे । शुद्धतृतीयादिवसे यत्नः सफलोऽयमजनिष्ट ॥ १४ ॥ ( किंच) समग्रदेशोत्तमगुर्जरेषु, अहम्मदाबादपुरे प्रधाने । श्रीवंशजन्मा मतिआभिधानो, वणिग्वरोऽभूच्छुभकर्मकर्त्ता ॥ १५ ॥ नित्यं गेहे दानशाला विशाला, तीर्थोन्नत्या तीर्थराजादियात्रा । सप्तक्षेत्र्यां वित्तवापश्च यस्य, स्तोतुं प्रायो ह्यस्मदाद्यैरशक्यः ॥ १६ ॥ साधुः श्रीशान्तिदासः प्रवरगुणनिधिस्तत्सुतोऽभूदुदारो, धात्र्यां विख्यातनामा जगडुसमधिकाऽनेकसत्कृत्यकृत्या (कर्त्ता) । रङ्कानामन्नवस्त्रौषधसुवितरणाद्येन दुष्कालनाम, प्रध्वस्तं शस्तभूता बहुविधिमंहिता जातिसाधार्मिकाश्च ॥ १७ ॥ पुत्रन्यस्तसमस्त गेहकरणीयस्य स्फुटं वार्द्धके, सिद्धान्तश्रवणादिधर्मकरणे बद्धस्पृहस्यानिशम् । सद्धर्मद्वयसंविधानरचनाशुश्रूषणोत्कण्ठिनस्तस्य प्रार्थनयाऽस्य गुम्फनविधौ जातः प्रयत्नो मम ॥ १८ ॥ ज्ञानाराधनमतिना, विनयादिगुणान्वितेन वृत्तिरियम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy