SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अ, इक्किका ते जिणा य थेरा य । अत्थस्स उ देसंमी, णसमत्ते तेसि पडिबन्धो ॥१॥” संपूर्णसूत्रार्थग्रहणं विना तत्कल्पप्रतिपत्तिस्तु लग्नचन्द्रबलादिषु झगित्यागतेषु अन्येषु च दूरवर्तिषु भवति, ततस्तं कल्पं प्रतिपद्य गुर्वधिष्ठितक्षेत्राहिःस्थिता एव विशिष्टक्रियायुक्ता अगृहीतमर्थं गृह्णन्ति, तत्र चायं विधिः-यदुताचार्यः स्वयं तत्र गत्वा तेभ्योऽर्थशेषं ददातीति, अर्थग्रहणार्थ क्षेत्रे तेषामागच्छतां तु दोषाः स्युस्तथाहि-वंदमानान् गच्छवा-16 सिसाधून ते[न] न प्रतिवन्दन्ते ततो लोके गर्दा भवति, यदुतैते अलोकज्ञाः, यद्वा परे शीलरहिता इति, तेषां पुनरियं स्थितियंदाचार्य मुक्त्वाऽन्यस्य साधोन नमन्ति, गच्छवासिनस्तु महान्तोऽपि तान् वन्दन्ते इति । अथ क्षीणजंघाबल आचार्यस्तत्र गन्तुं यदि न शक्नुयात्तदा यथालन्दिकोऽन्तरपल्लीमागच्छति, तत्राचार्य आगत्यार्थं दत्ते, सायं च मूलक्षेत्रमायाति, अन्तरपल्ली च मूलक्षेत्रात्सा द्विगव्यूतस्थो ग्रामः, तत्राप्यागन्तुमशक्त आचार्य प्रतिवृषभग्रामं यथालन्दिक एति, प्रतिवृषभग्रामश्च मूलक्षेत्राद्विगव्यूतस्थं क्षेत्रं, तत्राप्यागन्तुमशकुवति आचार्य मूलक्षेत्रबहि:प्रदेशे एति, तत्राप्यशक्ते मूलक्षेत्र एवान्यवसतौ, तत्रापि गमनाशक्तौ मूलवसतावायाति यथालन्दिक इति । तस्मै आचार्यः शेषार्थ दत्ते । एवं गृहीतार्थास्ते गच्छेऽप्रतिबद्धा विहरन्तीति सूत्रविषयो विशेषः । तथा द्विविधा अप्येते ऋतुबद्धे काले यत्र विस्तीर्णग्रामादौ स्थितास्तं गृहपतिरूपाभिः षद्भिर्वीथीभिः परिकल्प्यै| कैकस्यां वीथ्यां पञ्च पञ्च दिनानि भिक्षामटन्ति, तत्रैव च वसन्ति, एवं षड्भिर्वीथीभिः एकस्मिन् ग्रामे मासः पूर्णो भवति, तथाविधविस्तीर्णग्रामाभावे तु निकटतमेषु षट्सु ग्रामेषु पञ्च पञ्च दिवसान् वसन्ति, उक्तं च कल्प JainEducation a l For Private Personel Use Only how.ainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy