________________
अ, इक्किका ते जिणा य थेरा य । अत्थस्स उ देसंमी, णसमत्ते तेसि पडिबन्धो ॥१॥” संपूर्णसूत्रार्थग्रहणं विना तत्कल्पप्रतिपत्तिस्तु लग्नचन्द्रबलादिषु झगित्यागतेषु अन्येषु च दूरवर्तिषु भवति, ततस्तं कल्पं प्रतिपद्य गुर्वधिष्ठितक्षेत्राहिःस्थिता एव विशिष्टक्रियायुक्ता अगृहीतमर्थं गृह्णन्ति, तत्र चायं विधिः-यदुताचार्यः स्वयं तत्र गत्वा तेभ्योऽर्थशेषं ददातीति, अर्थग्रहणार्थ क्षेत्रे तेषामागच्छतां तु दोषाः स्युस्तथाहि-वंदमानान् गच्छवा-16 सिसाधून ते[न] न प्रतिवन्दन्ते ततो लोके गर्दा भवति, यदुतैते अलोकज्ञाः, यद्वा परे शीलरहिता इति, तेषां पुनरियं स्थितियंदाचार्य मुक्त्वाऽन्यस्य साधोन नमन्ति, गच्छवासिनस्तु महान्तोऽपि तान् वन्दन्ते इति । अथ क्षीणजंघाबल आचार्यस्तत्र गन्तुं यदि न शक्नुयात्तदा यथालन्दिकोऽन्तरपल्लीमागच्छति, तत्राचार्य आगत्यार्थं दत्ते, सायं च मूलक्षेत्रमायाति, अन्तरपल्ली च मूलक्षेत्रात्सा द्विगव्यूतस्थो ग्रामः, तत्राप्यागन्तुमशक्त आचार्य प्रतिवृषभग्रामं यथालन्दिक एति, प्रतिवृषभग्रामश्च मूलक्षेत्राद्विगव्यूतस्थं क्षेत्रं, तत्राप्यागन्तुमशकुवति आचार्य मूलक्षेत्रबहि:प्रदेशे एति, तत्राप्यशक्ते मूलक्षेत्र एवान्यवसतौ, तत्रापि गमनाशक्तौ मूलवसतावायाति यथालन्दिक इति । तस्मै आचार्यः शेषार्थ दत्ते । एवं गृहीतार्थास्ते गच्छेऽप्रतिबद्धा विहरन्तीति सूत्रविषयो विशेषः । तथा द्विविधा अप्येते ऋतुबद्धे काले यत्र विस्तीर्णग्रामादौ स्थितास्तं गृहपतिरूपाभिः षद्भिर्वीथीभिः परिकल्प्यै| कैकस्यां वीथ्यां पञ्च पञ्च दिनानि भिक्षामटन्ति, तत्रैव च वसन्ति, एवं षड्भिर्वीथीभिः एकस्मिन् ग्रामे मासः पूर्णो भवति, तथाविधविस्तीर्णग्रामाभावे तु निकटतमेषु षट्सु ग्रामेषु पञ्च पञ्च दिवसान् वसन्ति, उक्तं च कल्प
JainEducation
a
l
For Private
Personel Use Only
how.ainelibrary.org